________________
१२६ : गुणनिरूपणम् । व्यवहारात । तथापि परत्वापरत्वयोः परस्पराश्रयमवधीकृत्यैवोत्पादादविद्यमानस्य समवायिकारणाभावेऽवधित्वस्याप्यभावात । मृतापेक्षया च वर्तमाने परत्वादिव्यवहारस्तथाविधापेक्षाबुदिविषयत्वगुणनिवन्धनः। .. ननु कालकृतपरत्वापरत्वयोर्मानाभावः । तथाहि परत्वापरत्वाश्रयाभिमतावच्छेदकाद्यसूर्यक्रिया प्रागभावसमानफलत्वालम्बना वा (?) अपरत्वधीस्तु परत्वाबाधाभिमतपिण्डसमानकालपदार्थध्वंसकालोत्पत्तिमत्त्वविषया तदुत्पत्तिकालाश्रयत्वे तदुत्तरकालत्व
वास्तु किं ताभ्याम् । ___मैवम् । प्रागभावोत्पत्त्यास्तदानीमतीतत्वे परत्वापरत्वयोवर्तमानतभावानुपपत्तेः । इदानीमयमेतस्मात् परे इति वर्तमानतामानात् प्रागभावादेरवध्यनिरूप्यत्वेन परत्वादेश्च सावधित्वेन तद्भिन्नत्वात् । . केचित्तु । प्रतियोग्यन्यूनानतिरिक्तकालीनावधिकसामवायिकयावत्परत्वाश्रयसमानकालीनकादाचित्काभावत्वं प्रागभावत्वम् ।
अतः परत्वेनैव प्रागभावनिरूपणान तेनैवान्ययासिद्धिरित्याहुः । ... तन्न। गन्धानाधारकालानाधारत्वाभावेन प्रागभावनिर्वचनात् ।
बहुतरतपनेति । यत्मागभावावच्छेदकक्षणावच्छिन्नजन्म यदपेक्षया तद्विपकृष्टं यजन्मावच्छेदकक्षणध्वंसक्षणाधिकरणजन्म यदपेक्षया तत्सन्निकृष्टमित्यर्थः । ___ अत्र केचिदाहुः । जन्मान्तर्भावो व्यर्थः। बहुतरतपनपरिस्पन्दावच्छिन्नत्वबुद्धेरेव परत्वोत्पादकत्वात् । एवञ्चानित्यद्रव्यापेक्षया