________________
१२५
किरणावली प्रकाशः भवति व्यवहारविशेषश्च व्यवहर्त्तव्यविशेपं विना नेत्यर्थः । एवं सत्यनुमानमप्याहुः । घटः समानाधिकरणसंयोगासमवायिकारणकैकत्तिगुणवान् मूर्त्तत्वात् पार्थिवपरमाणुरत् । दृष्टान्ते तादृशो गुणः पाकजो गन्धादिः। __ अयं पार्थिवः परमाणुरेतत्तिविशेषगुणभिन्नसंयोगासमवायिकारणकैकत्तिगुणाश्रयः पार्थिवत्शत् पार्थिवान्तरवदिति न युक्तम् । एकेनापरस्यान्यथासिद्धावुभयासिद्धेः । दिकालकृतत्वं कार्यमात्रस्येत्यतोऽन्यथा व्याचष्टे-दिक्संयोगेति।
दिश एकत्वाद्विशेषासम्भव इत्यन्यथा व्याचष्टे-दिग्विशेषः कालादिति।
दिशः स्वापेक्षया न विशेषः किन्तु कालापेक्षयेत्यर्थः । एवमिति। कालस्यापि दिगपेक्षया विशेषो न स्वापेक्षयेत्यर्थः। दिशि विशेषो दिगुपाधिलक्षणः।
ननूत्पत्त्यभिधानप्रतिज्ञा व्यर्था, उत्पत्तेरंवाभिधातुं युक्तत्वादित्यत आह-शिष्याणामिति । ननु परत्वाधार इत्ययुक्तमपेक्षाबुद्धयनन्तरं परत्वाद्युत्पत्तेरित्यत आह-भविष्यदिति । . तर्हि कारणाविशेष इति।दिच्छाकास्कृतपरत्वापरत्वयोः कार्ययोः कारणे विशेषाभावात कयं विशेष इत्यर्थः ।
. न हीति । दिक्कृतपरत्वानिवझणपरत्वाचनुमेपनाह कालस्येत्यर्थः। . अवर्तमानस्येति । यसपाश्चिमानस्य ममारिकामा भावेऽपि.अवधित्वेन दोपामाः, माया वन्द शार