________________
किरणावली प्रकाशः १९५ त्ययः । स्वस्यात्मनि ततोऽन्यस्मिन्निति। नन्वात्मनि श्रवणमननश्रवणाचिन्तासन्ततेश्च. साक्षात्कारजननस्य. दृष्टत्वादात्मनि साक्षात्कारसंभवेऽप्याकाशगोचरश्चिन्तासन्तानेन साक्षात्कारो जन्यत इत्यत्र मानाभावः । तत्र श्रवणमनननिदिध्यासनाश्रवणात् ।। अथात्मसाक्षात्कारणात्मन्यनात्मभ्रमे निवृत्तेऽप्यनात्मन्यात्मभ्रमस्तावन्न निवर्तते, यावत्तत्र साक्षात्कारो न जायत इति चेत् । न । आत्मनि विशेषदर्शनेन यथात्मनि नानात्मारोपस्तथानात्मन्यात्मारोपो न संभवति । विशेषदर्शनाविशेषात् । अथात्मा चिन्त्यमान इतरभिन्नत्वेन चिन्तनीय इतीतरेष्वपि साक्षात्कारो जायते । न-। श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति सामानाधिकरण्यात् । यथा श्रवणं तथा मननं तथात्मा चिन्तनीयः । श्रवणादि चेतरभिन्नत्वेनेत्यत्र न मानम् । ____ अत्राहुः। श्रोतव्यः श्रुतिवाक्येभ्य इत्यसङ्कुचितस्वरसाद्यावदात्मगोचरश्रुतिवाक्येभ्य आत्मश्रवणे श्रुतौ चेतरभिन्नत्वेनात्मप्रत्यायनात्तथैव श्रवणमननादिकमपि तथोपस्थितामति । तथैव निदिध्यासनसाक्षात्कारोऽपीतरेष्वा ( का ? ) शादिषु वाच्यः। • यद्यपीति।तथा चास्मदादिप्रत्यक्षप्रस्तावे विषयतयात्मा किमिति नोक्त इत्यर्थः।चतुष्टयसंनिकर्षादित्यनेनेति । यदि चतुष्टयसंनिकर्षोऽत्र विवक्षितः स्यात्तदेन्द्रियसंनिकर्षाभावे. योगिनामात्मसाक्षाकारोन स्यादित्यर्थः । कस्य चिदिति योग्यानुपलम्भनिराकरणार्थम् । योगजस्यापि धर्मस्यति । ननु योगविषयकत्वेन योगजो धर्म आत्मसाक्षात्कारहेतुरस्तु परमाण्वादिसाक्षात्कारे कथं हेतुः ।