________________
१३४
: गुणनिरूपणम् संसारहेतुत्वेन धर्मस्याप्यधर्मत्वेनाभिधानम् । ज्ञातृधर्मेति । ज्ञातुरपि ज्ञेयत्वात् गोवृषन्यायेन विभागः । भ्रान्तोऽहमिति । यद्यप्ययमात्मधर्मिकः संशयस्तथापि ज्ञानधर्मिक एवोचितः । तथैवोपक्रमात् ।
ननु समानधर्मज एव न संशयः । उपलब्ध्यनुपलब्धिविप्रतिपत्तीनामपि संशायकत्वादित्यत आह - एतदुक्तमिति । तद्विषयेऽपि समानधर्मसद्भावं दृष्टान्तेनाह - यथाहीति । व्याहतेति । ननु विप्रतिपत्तिर्विरुद्धधर्मविषयकः शब्दप्रयोगः । कारणेन कार्यस्य लक्षणात् । वादिगतायास्तस्याः परोक्षत्वात् । स च समानधर्मवद्धर्मिनिष्ठत्वेनाप्रतिसन्धीयमानं एव संशयहेतुः । न । तस्यापि विषयविषायभावेन सम्बन्धेन धर्मिनिष्ठतया प्रतिसंहितस्यैव : संशाय - कत्वात् । अन्यथातिप्रसङ्गात् । ननु समानधर्मो न संशयमात्रे हेतुः । व्यभिचारात् । न । तद्विशेषे जातिकृतस्य तस्यासिद्धेः । कारणत्वग्रहात्तत्कल्पनेऽन्योन्याश्रयात् ।
किञ्च । न तस्य स्वरूपतः संशायकत्वं किन्तु तत्सहचरितकोटिस्मारकतयति तत्रैवान्यथासिद्धिः । न च कोटिस्मरणं तद्वयापारः । केवलाददृष्टादपि कोटिस्मृतेः । अत एव स्मर्यमाणकोटिके संशये तत्कारणत्वमपास्तम् । तस्मात् कोट्युपस्थितिधमिज्ञानविशेषादर्शनान्येव संशयकारणानि ।
मैवम् । उत्कटकोटिकसंशयस्यान्यथासिद्धेः । यत्र कोटी भूयःसहचरितधर्मग्रहस्तत्रैवोत्कटत्वात् । तथाच तत्र विशेषे तत्कारणत्वादन्यत्रापि तत्र तथा । यद्वा वेगेन गच्छतस्तत्तत्कोटिस्मृतौ विशेषादर्शने च समानधर्मज्ञानाज्ञानयोः