________________
किरणावली प्रकाश
१३३ मत्वस्योपगम इत्यर्थः । एवमन्यत्रापि । न्यायाङ्गतयेति । संशयवदिति शेषः । विरोधिनानार्थावमर्ष इति ।
नन्वेतत् स्थाणुः पुरुषश्चेति भ्रमेऽतिव्याप्तम् । विरोधे भासमान इति विशेषणेऽपि धूमाभाववानयं यदि धूमवान् स्यात् वह्नयभाववानपि वह्निमान स्यादित्यत्र त:ऽतिव्याप्तिः । न च तत्र वह्नयभावविशिष्टे वह्निवैशिष्टयं विषयः । संशये तु तुल्यवधुभयवैशिष्टयं विषयः। तथापि विरोध्युभयविशिष्टमिति शब्दजन्यज्ञानेऽतिव्याप्तिः । न च जिज्ञासाजनकं ज्ञानं संशयः । उपेक्षणीयसंशयाव्याप्तेः । योग्यतायाश्च तदवच्छेदकधर्मप्रतीतावप्रतीतेः । अनुव्यवसायेऽतिव्याप्तेश्च । नापि स्थाणुर्वा पुरुषो वेति स्मरणाभावात् संस्काराजनकं ज्ञानं संशयः। तथाविधनिश्चयेऽतिव्याप्तः। तस्यापि किञ्चिदवाच्छिन्ने ग्रहः ।
उच्यते । एकस्मिन् धर्मिणिविरोधिनानाप्रकारकं ज्ञानं संशयः। न चैतनिरुक्तजन्यज्ञानेऽतिव्याप्तिः । तत्र विरोधिनानामकारकत्वस्य प्रकारत्वात् । संशये च विरोधिनोरेव प्रकारत्वाद । विरोध्युभयविशिष्टमितिशब्दस्यायोग्यतया ज्ञानाजनकत्वात्तजनकत्वज्ञानेऽतिव्याप्त्यभावात्तदेव वा लक्षणम् ।
ननु समानधर्मदर्शनात्तद्भिन्ने धर्मिणि कथं संशय इत्यत आह-उभयति । संशयस्य चेति । ननु कस्यचित संशयस्य मुखमात्रजनकत्वाद्धर्मजन्यत्वमपि । . . . . __अत्राहुः । संशयो न संसारविरोधी । किन्तु य आत्मगोचरः । संसारविरोधीति दर्शयितुं दुःखपदं संसारे उपचर्य