________________
किरणावली प्रकाशः १३५ संशयतदभावाभ्यां तत्कारणत्वम् । केवलादृष्टस्मारितकोटिकश्च संशयो नास्त्येव येन तस्य वहिर्भावः स्यात् । सर्वत्र समानधर्मस्यान्वयादिदर्शनात् ।
ननु समानधर्मेषु समानशब्दो न सादृश्यार्थः । किन्तु साधारणार्थ इति स्थाणुपुरुपसंशयो न स्यात् । तयोः परिमाण. स्यासाधारणत्वात् । तजातेश्चाद्रव्यत्तित्वात् ।
न । जातरपि परम्परासम्बन्धेन द्रव्यवृत्तेः। .. सारूप्यज्ञानादिति । स्थाणुपुरुपसदृशोऽयमिति ज्ञानात् विरुद्धनानाप्रकारकज्ञानस्यैकस्मिन् धर्मिमण्यनुभवसिद्धत्वादित्यर्थः ।
वाकारार्थश्च विरोधः।
परस्परेति । आरोप्यारोपविषययोम्मिथो भेदार्थ वैधयमुक्तम् । सामर्थ्यानुपलब्धाविति । तोयनातीयस्य पिपासोपरामनसामर्थ्यानुपलब्धावित्यर्थः ।
तहेतुत्वासम्भवेनेति । इष्टानिष्टसामर्थ्यानुपळम्भसम्भवेनेत्यर्थः ।
अनुपलब्ध इति । आरोपणीय इत्यर्थः ।
आरोप्यज्ञानस्यारोपप्रयोजकत्वमुक्त्वारोपविषयज्ञानस्य तत्प्रयोजकत्वमाह-आरोपविषयेति । आरोप्यज्ञानेति । ननु सारूप्यं न सरूपसम्भ्रमहेतुर्मानाभावादिति, ज्ञातस्य तस्य हेतुत्वे तस्य भेदाधिष्ठानतया भेदग्रहात्तदनुपपत्तिः । न साधारणधर्ममात्रग्रहस्यारोप्यस्मारकतया प्रत्यक्षभ्रमे . तन्त्रत्वाव । अन्यथा तद्विषयनियमानुपपत्तेः।