________________
गुणानरूपणम् संशयो न वाऽभामाण्यसंशयं विनति नार्थेन व्यभिचारः ।
ज्ञानत्वसंशयवदिति । यथा ज्ञानत्वे निश्चिते तत्र संशयो न भवति तथा प्रामाण्येऽपि निश्चित इत्यर्थः ।
अथ प्रामाण्यवदिति । प्रामाण्यज्ञानमात्रं न संशयविरोधकं किन्तु प्रामाण्यमेवेति साधारणं ज्ञानमिति शङ्कितुरभिप्रायः । तत्किमिति । प्रामाण्यस्य ज्ञान प्रामाण्याश्रयो ज्ञानमित्यर्थः । प्रमाणज्ञानमिति पाठे प्रमाणरूपं ज्ञानमित्यर्थः । निश्चयमात्रमेव संशयप्रतिबन्धकं न तु तद्विशेष इत्याशयेन परिहारः । तदप्रतीतेरिति । प्रामाण्याप्रतीतेरित्यर्थः ।
झटितीति । लिङ्गज्ञानापेक्षायां विलम्बः स्यादित्यर्थः। प्रवृत्ती न प्रामाण्यग्रहस्य सर्वत्रोपयोगः । तथात्वेऽपि झटित्यभ्यासापन्नलिङ्गानुसंधानादप्युपपत्तिरित्याह-अन्यथैवेति । ननु पक्षलिङ्गव्यापारज्ञानानां प्रामाण्यानवधारणे स्वाश्रयायसिद्धिरवधारणे चानवस्था । न च लिङ्गादिज्ञानं स्वविषयनिश्चये कर्तव्ये स्वप्रामाण्यज्ञानं नापेक्षते, प्रामाण्यसंशये लिङ्गस्य संदिग्धत्वादित्यत आह-न चानवस्थेति । चरमप्रामाण्यज्ञानस्य ज्ञानाभावेन कोटिस्मरणमावेन विषयान्तरसंचारेण वा मामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथा भट्टपक्षेऽपि मामाण्यस्य ज्ञानानुमितिग्राह्यत्वेऽनवस्था स्यादित्याह-तथात्वे वेति । प्रामाकरेऽपि मते प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम् । स्वरूपप्रामाण्यवहिर्भूतत्वातः । किन्तु परग्राह्यत्वेऽनवस्थानात् परिशेषानुमानेन मानान्तरेण वा ग्राह्यम् । तथाच तत्मामाण्यस्यापि स्वग्राह्यत्वमन्येनैवेत्यनवस्येति भावः । प्रामाण्यानुमान च