________________
किरणावलीप्रकाशः
१९५
प्रथमं व्यतिरेकिणा । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वमकारकः गन्धवद्विशेष्यकपृथिवीत्वप्रकारकनिश्चयत्वात् यनैवं तत्रैवं यथा पृथिवीभ्रमः । तथाच पृथिवीभ्रमे पृथिवीत्वाभाववति पृथिवीत्वमकारकत्व गन्धवद्विशेष्यकपृथिवीत्वप्रकारकत्वाभावयोर्व्याप्तिग्रहादप्रामाण्यव्यापकत्व भावा भावरूपाद्धेतोरप्रामाण्याभावाभावरूपं प्रामाण्यं सिध्यति । यद्व्यापकतया हेत्वभावो गृहीतस्तदभावस्यैव हेतुना साध्यमानत्वाव । व्यतिरेक्यनन्तरं तज्जातीयत्वेनान्वयिना प्रामाण्यानुमानम् । यथेदं पृथिवीज्ञानं प्रमा गन्धवद्विशेष्यकपृथिवीज्ञानत्वात् । तत्त्वेन मतवत् । अधिकस्तु पल्लवोऽन्वीक्षातत्त्ववोध प्रदर्शित इति नेह प्रतायते ॥
समयबलेति । अर्थविशेषे चेष्टाविशेषस्य संकेते गृह्यमाण एव ततोऽर्थप्रतीतिः । सङ्केतज्ञानपुरस्सरं प्रवृत्तप्रमाणस्यैव च शब्दत्वाचेष्टाया अपि तथात्वात्तत्रान्तर्भावश्चेष्टाया इत्यर्थः । एवं सति चेष्टायां शब्दव्यवहारमुपपादयति - शब्द एव त्विति । न ह्यत्रेति । पुमभिप्रायस्यानियतत्वादित्यर्थः । नापीति । ऐश्वरस्याधुनिकस्य वा नियतस्य संकेतस्याभावादित्यर्थः । अतः ल्कृप्तप्रमाण वैधर्म्या चेष्टा मानान्तरमेवेति भावः । द्विविधेति । यद्यपि सर्वा चेष्टा कृतसमयैत्र । इयांस्तु विशेषः । स्वनियतोऽपि कचिद्देवदत्तादिपदवदाधुनिको यथा हट्टादौ तर्जनीस्पर्शे । क्वचिद्धटादिपदवदैश्वरः । पटादिपदवच्चेष्टाविशेपस्याप्यनादित्वाविशेषात् । यथाङ्गुलीपञ्चकबुद्धिभावे पञ्चेति । तथाप्याधुनिकसंकेतमाश्रित्य कृतसमयत्वाकृतसमयत्वव्यवहारः ।
तत्र कृतसमयेति । नन्वभिप्रायस्थः शब्दो न तावव सम