________________
किरणावली प्रकाशः १५१ मिलितादुत्प्रेक्ष्य निपतिते श्येने स्थाणौ चलतीति प्रतीत्यापत्तेः । तवापि संयोगविभागयोगत्यनुमानलिङ्गयोः स्थाणौ. दर्शनाद्गत्यनुमानं स्यादिति चेत् । न । मम योग्यस्य कर्मणोऽनुपलम्भेनाभावनिश्चयेन बाधितविषयत्वात् । न तर्हि सूर्ये ताभ्यां गत्यनुमानम् स्थाणुनानैकान्तिकमिति चेत् । न । यो विभक्तः संयोगव्यभिचारी -स कर्मवानिति व्याप्तिः। स्थाणुस्तु नैवम् । किञ्च । कर्मातीन्द्रियत्वेन कर्महेतोरेव संयोगविभागौ कृतं कर्मणा । चलतीति धीरपि तत एव भविष्यतीति भावः आत्मसमवेतानामिति । परबुद्धेः परं प्रत्ययोग्यत्वादित्यर्थः।
माभाकरः स्वप्रकाशपक्षसाधकमाह-बुद्धिः स्वव्यवहार इति । तत्र वर्तमानज्ञानव्यवहारो व्यवहर्तव्यभिन्नज्ञानसाध्यो न वा, उभयसिद्धप्रत्यक्षविषयो ज्ञानं मानसप्रत्यक्षविषयो न वेति संशयः ।
__ अत्र सपक्षाभावानासाधारण्यम् । युक्तं चैतत् । वर्तमानज्ञानं स्वयमेव व्यवहारं करोति । स्वस्मिन सत्येव स्वव्यवहारात । न ज्ञानान्तरमपेक्षते । तदन्वयव्यतिरेकानुविधानाभावात् । ज्ञानान्तराभावदशायां स्वविरहादेव स्वव्यवहारविरहात् । स्वत एव व्यवहारोपपत्तौ ज्ञानान्तराकल्पनाच । इच्छादिकं तुनतथा। व्यवहारस्य ज्ञानजन्यत्वनियमेन इच्छादिव्यवहारे ज्ञानापेक्षणात् । अथ ज्ञानमात्रं न व्यवहारहेतुरतिप्रसङ्गाव, किन्तु व्यवहर्तव्यविषयपिति ज्ञानव्यवहारोऽपि तद्विषयकज्ञानाभवेदिति चेत् । न । स्वस्यैव स्वविषयवाद । यध्यवहारानुकूलशक्तियोगि यज्ज्ञातं तस्य तद्विषयत्वात । न च व्यवहारस्य स्वाभिन्नज्ञानसाध्यत्वम् । गौरवादिति भावः ।