________________
१४८ . गुणनिरूपणम् . . 'जागराहेतोरेव तथात्वकल्पनात् ।
मैवम्। प्राथमिकगौरितिप्रत्यक्षस्य जन्यविशिष्टज्ञानत्वात् विशेषणज्ञानजन्यत्वानुमानात् । तज्जन्मनि गोत्वाननुभवेन संस्काराभावात् प्राम्भवीयसंस्कारोद्धोधको गोत्वेन्द्रियसंनिकर्षः कल्प्यते । आधप्रवृत्तिवत् सबलादिवदिति चेत् । तर्हि ततो गोत्वानुभव एव स्यात् । अन्यत्र तस्य हेतुत्वकल्पनात् । पूर्वं च विशेषणज्ञानाभावादात्तन्निविकल्पकम् । तत्रापि ज्ञानत्वात्तद्विशिष्टज्ञानत्वानुमितिः स्यादिति चेत् । न । कारणबाधेन बाधादनवस्थानाच्च । विशिष्टज्ञानत्वादित्यत्र व्यावर्त्यस्याविशिष्टज्ञानस्याप्रसिद्धिः। ज्ञानत्वं च स्वतोऽसिद्धव्याप्तिकामति चेत् । न । येन विशेषणेन विना व्याप्तिर्ग्रहीतुं न शक्यते तद्विशिष्ट एव व्याप्तेः । व्यभिचारवारकावशेषणस्यापि -सार्थकत्वे तस्यैव तन्त्रत्वात् । अत्रापि विशेषणं विनाऽनवस्थानावाप्तेरग्रहात् । . विशेष्यज्ञानमिति । विशिष्टज्ञानमित्यर्थः । सहकारिविशेषमिति विशेषणज्ञानं विशिष्टज्ञाने इन्द्रियार्थयोः सहकारीत्यर्थः । तुच्छत्वादिति । व्यावृत्तिमनोऽन्याया इत्यर्थः । अत एवेति । वस्तुविषयत्वादेवं न निर्विकल्पकोपाधिकं साक्षात्वमित्यर्थः । देशकालेति । आकारः स्वरूपम् । तेनाग्रे स्वरूपविपर्यासनिपेधः संगच्छते । कुञ्चिका कपाटोद्घाटको लोहविकारविशेषः । तस्य विवरं तस्य कपाटमध्यमुषिरमित्यर्थः। . अस्थिरस्य. स्थिरत्वेनेत्यादौ यथासंख्यं क्षणभङ्गस्य भङ्गादित्यादि योजनीयम् । विभ्रमादन्यत्रेति । इन्द्रियाणां