________________
२२८ ... गुणानिरूपणम् . . मपि सत्त्वादेकज्ञानधीपरम्परया विषयान्तरसञ्चारो न स्यात् । विषयान्तरधीसामग्र्याः प्रतिबन्धकत्वात् । कार्यदर्शनेन. तथा कल्पनात । सांख्या हीति । प्रथमः परिणाम आद्या विकृतिः । सत्त्वरजस्तमासाम्यरूपायाः परिणामिन्याः सत्त्वभेदः : प्रथमः परिणामो बुद्धिरन्तःकरणभेदः । सांख्यानां बुद्धिमनोऽहङ्कारभेदेन तवैविध्याव ।
बुद्धेरिति । बुद्धस्त्रयोऽशाः पुरुषोपरागविषयोपरागण्यापारावेशभेदाव । मयेदं कर्तव्यमित्यध्यवसायात् । तत्र मयेत्यतात्त्विको महचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः। : : . नीलादिष्विन्द्रियसन्निकर्षाव तत्स्वभावस्य महत्तत्त्वस्य नीलाचाकारपरिणतिभेदोत्पादो मलदर्पणसम्बन्धवत् पारमार्थिको विषयोपरागः । पुरुषोपरागविषयोपरागाभ्यां कर्तव्यविषयस्य प्रतिमासात्तदधीनः करोमीत्यध्यवसायो व्यापारावेशः । तत्राघोंऽशो
बुद्धिर्द्वितीयो ज्ञानं तृतीयश्चोपलब्धिरित्यर्थः। . .., . बुद्धिस्थामिति । बुद्धर्भावाष्टकसम्पन्नत्वात् मुखादिकं भावनान्तं तद्धर्म इत्यर्थः।
यदीति । करणव्युत्पन्नस्यान्तःकरणवांचितयास्माभिरुप-गमादित्यर्थः ।
: तद्भिन्नान्तःकरणे बुद्धिर्नास्ति मानाभावादित्याह-ततोऽ पीति । भावव्युत्पन्नस्य बुद्धिशब्दस्य नान्तःकरणवाचिता, करणफलयोर्मेदादित्याह-बोध इति । अन्तःकरणस्यातीन्द्रियत्वात प्रत्यक्षाया बुद्धभेदमाह-स चेति । ननु फलमपि महदन्तःकरणस्य