________________
किरणावली प्रकाशः प्रतिवन्धका न त्वागन्तुककार्यजनका इति । ततो यथार्थज्ञानं मा जनिष्टायथार्थज्ञानन्तु, कुत इत्यत आह-न च दोषा इति । स्वच्छत्वमभास्वररूपविरहः । व्यूहनं वाजीकरणम् । विष्टम्भनं गतिप्रतिबन्धः । ननु चक्षुत्रिग्राह्यत्वं पीतादौ तत्सामान्ये चास्तीति तदपि सारूप्यादागेप्यतेत्यत आह-नियमादृष्टवशादिति । यथा मण्डूकवसाअनादोषाद्वंश एवोरगभ्रमो नान्यत्रेति नियमस्तथा नियमादृष्टवशादत्राप्यारोपनियम इत्यर्थः।
पारलौकिकपथदर्शनानुपायत्वात् पाखण्डदर्शनानामाह-दर्श नप्रतिरूपकेविति । तेष्वेव वेदद्धेष्वेव ।।
ननु नित्यद्रव्याविषयको भ्रमः केवलान्वय्यत्यन्ताभावप्रति. योगिमात्रविपयको न वेति विमतिपत्तृभ्रमः प्रमाविषयाविषयकः भ्रमान्यज्ञानान्यत्वात् आकाशवत् । न चामयोजकत्वम् । तथाहि पुरोवर्तिनि रजते च न भ्रमत्वं तयोः सत्त्रात किन्त्वेतयो:शिष्टथे । तच्चासदेव । नेदं रजतमिति च कस्यापि न पुरोवर्तिरजते वाध्यते । अपि तुः तयोर्वैशिष्टयं वाध्यमतो भ्रमे तदुपस्थितिरेव युक्ता। न हि कारणत्वं विषयत्वम् । अतीतत्वादेरपि तत्त्वात् । किन्तु स्वकारणाधीनः स्वभावविशेषः । स चासत्यपि विरुध्यत इत्यत आह-इह विभ्रम इति। भ्रमत्वञ्च नासद्विषयत्वं किन्तु सद्विषयत्वेऽपि । विशेष्यात्तिप्रकारकत्वात् । किञ्चासदिति। नाभावः तत्मतियोगिवा प्रमासाधारणत्वात् । नाप्यत्यन्तासदखण्डम्।तगाने कारणाभावात् । इन्द्रियाणांसन्निकृष्टार्थबोधकत्वात् । तदभावे व्यायाधग्रहेऽनुमानाद्यपत्तेः । ननु सविषयकोऽयं भ्रमः ज्ञानान्यविषयको