________________
. किरणावली प्रकाशः १६५ ननु व्याप्तिस्मृतिः व्याप्यतावच्छेदकरूपेण, पक्षधर्मताज्ञानेमित्येवानुमितिहेतुर्लाघवादतृतीयलिङगपरामर्शहेतुत्वेनावश्यकत्वाच्च। तथा च धूमो वन्हिव्याप्यो धूमवांश्चायामति ज्ञानद्वयादेवानुमितिरंस्तु । न चैवं गोत्वादेरनुमितिर्न स्यात् । तत्रापि तदितरावृत्तित्वे सति तद्वृत्तित्वस्य धर्मान्तरस्य व्याप्यतावच्छेदकत्वात् पर्वतीयधूमे धूपत्वेन ज्ञाते वन्दिव्याप्योऽयं न वति संशये तद्विपर्यये वानुमितिः स्यादिति चेत् । न । धूमो चन्हिव्याप्य इति स्मरतो धूमज्ञानस्य विशेषदर्शनत्वेन तयोरसिद्धः । अन्यथा परामर्शस्याप्यापत्तेः । अथ सामग्र्येव तत्र मानम् इन्द्रियसंनिकृष्टे धूमे व्याप्तिस्मृतिसत्त्वादिति चेत् । न । तत्र व्याप्याभेदप्रत्यक्षसामग्रीतोऽनुमितिसामंध्या बलवत्त्वेनानुमितेरेवोत्पत्तेः। अन्यथा तवापि परामर्शान्तरापत्तेः । इन्द्रियसनिकृष्टेऽतीन्द्रिये च. लिङ्ग तत्सामग्र्यभावाद्वयभिचारः । न चानुमानात्तत्र लिङ्गपरामर्शः । तत्रापि तदपेक्षायामनवस्थापत्तेः । उच्यते । पक्षधर्मस्य व्याप्यत्वज्ञानमनुमितिहेतुः लाघवादुपजीव्यत्वाच्च । न तु तस्य व्याप्यतावच्छेदकपकारकज्ञानम् । गौरवात् । न च तस्यानुमितिः पूर्वमसिद्धौ युगपदुपस्थित्यभावान्न लाघचावतारः । यत्र व्याप्तिधूमत्वयोवैशिष्टयं प्रथममेव प्रत्यक्षण युगपत् पक्षधर्मे भासते शब्दाद्वा तत्र उभयोर्युगपदुपस्थितेः । न चैवमतिरिक्तविशिष्टधीकल्पनायां गौरवम् । सिद्धयसिद्धयोर्ध्याघातेन फलमुखगौरवस्यादोषत्वात् । किश्च वन्हिव्याप्यवानिति शाब्दमाने व्याप्यतावच्छेदकधूमत्वाद्यज्ञानाद्वयाप्यत्वज्ञानसत्त्वात्तदेवानुमितिकारणम् । न च वन्हिव्याप्यमपि.. व्याप्यतावच्छेदक