________________
१७८ ...गुणनिरूपणम्.. तरत्वव्यतिरेकस्य चातन्त्रत्वात् । केवलान्वयिनि साध्यात्यन्ताभावाप्रसिद्धः केवलव्यतिरेकिणि विरुद्धत्वातः । अन्वयव्यतिरेकिणि चासाधारणत्वात् । ___मैवम् । तथा सात सत्मतिपक्षे तदनुद्भावनापत्तेः । एकेनैव
भूयसामपि प्रतिवन्यात् । संदिग्धोपाधेरदूषकतापत्तेश्च । पक्ष तदभावस्य संदिग्धत्वात् । बाधोनीतस्यापि तस्यानुपाधितापत्वेश्च । अथोपाधिलक्षणे विपक्षाव्यावर्तकविशेषणशून्यत्वं विशेषणं पक्षेतरे च विशेषणस्य पक्षमात्रे व्यावर्तकतया विपक्षाव्यावर्तकत्वात् आर्टेन्धनवत्त्वादेश्च विशेषणस्य विपक्षतप्तायःपिण्डादिव्यावर्तकत्वात् । एतच्च विशिष्टव्यतिरेकेऽप्यस्ति । वाधोनीते च नाव्याप्तिः । तस्य पक्षाभिमनस्यापि विपक्षत्वादित्युच्यते । तत्कि व्यभिचारावारकविशेपणवत्तया दृषकत्वमेवास्य नास्ति । ओमिति चेत् ।.न. साध्य: व्यापकसाधनाव्यापकत्वमात्रस्यैव तद्वीजत्वात् । न च व्यभिचाराचारकविशेषणशून्य एव व्याप्तिग्रहः । न हि वस्तु व्यभिचारावारकविशेषणशून्यं भवति । प्रमेयत्वादेः सर्वत्र सत्त्वात | नापि तत्रोपात्तविशेषणशून्यत्वं विवक्षितम् । न हि तत्रोपात्तं तेन शून्यं चति संभवति । तस्मात्साध्यव्यापकत्वं साधनाव्यापकत्वं पक्षेतग्त्वेऽप्यस्तीति तदभावाद साध्याभावः स्यादेवेति हेतोयभिचार एव । व्यभिचारे चावश्यमुपाधिरिति पक्षतरत्वमेवापोधिः स्यात् । अत - एवासाघकमिदं सोपाधित्वादित्यत्रापि पक्षेतरत्वोपाधेः संभवादन
मानमात्रोच्छेदकतया न तदुपाधिरित्यपास्तम् । साध्यव्यापकतया तयतिरेकस्य दृषणसंबन्धत्वेन जातित्वामावाद । नापि पक्षधर्मा