________________
किरणावलीप्रकाशा चोपाधेरभावात् पक्षतरत्वमुपाधिः। प्रकृने च. न तथा । अनुमान• मात्रोंच्छेदादित्यर्थः । यद्यपि सर्वत्र बांधे नोपाधिः, धूमेन . जलहदेऽग्निसाधने तदभावात् । तथापि साधनवति पक्षाभिमते. बाधे सत्युपाधिरस्त्येव । . .... . .
। अत एवेति । यद्यपि बाधितत्वज्ञानाभावस्यानुमितिप्रयोजकतया विरोधिप्रमाणाभावनिश्चयोऽभयोजकस्तथापि · विरोधिप्रमाणसंशयस्यानुमितिप्रतिवन्धकतया तदभावनिश्चयोऽपेक्षणीय इति भावः। .नन्वतावता प्रत्यक्षोपाध्यभावनिश्चयेऽप्यतीन्द्रियतदभावः कथं निश्चयः, कथं वा साध्यव्यापकोऽयं साधनव्यापको न वेति संशयस्य देशान्तरकालान्तरयोर्व्यभिचार संशयस्य च : निवृत्तिरित्यत आह-तर्कश्चेति । यथा च तर्कस्य शङ्कानिवारकत्वं तथोक्तमधस्तात् । : . . . . . : १: साधनाव्यापकत्व इति । नन्वेतत् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्योरव्यापकम् । न च तयोरनुपाधित्वंम् । दपकताबीजसाम्यात् । बाधानुनीतपक्षेतरत्वेऽतिव्यासेश्च । न च यत्र पक्षे साध्यं नास्ति तत्र बाधोनीतः पक्षेतरखमुपाधिरिष्यत एव । यत्र च पक्षे तदस्ति तत्र साध्याव्यापकृत्वान्न तस्योपाधित्वमिति युक्तम् । पक्षातिरिक्तसाध्यव्यापकस्वनिश्चयेनैवोपाधित्वात् तस्य च तत्र सत्त्वात् । अन्यथोपाधिमात्रोच्छेदापत्तेः।
अथोषाधेः स्वच्यतिरेकेण सत्प्रतिपक्षीभूय. दृषकत्वात् पक्षे