________________
किरणावली प्रकाशः १५७ व्यपदेशो नाम जात्यादि तत्कर्म व्यपदेश्यं तद्वन्न भवति तदव्यपदेश्यं वैशिष्टयानवगाहीत्यर्थः प्रतीयते । तथा च सविकल्पकं व्यवच्छिद्यतेत्यत आह-शव्दाजन्यमिति चेति । तद्व्यवच्छेदार्थमिति।
ननु व्युत्पन्नस्य शब्दश्रवणानन्तरं यद्गौरिति ज्ञानं तद्यदि शान्दं तदा नेन्द्रियार्थसंनिकर्पनम् । अथ तजन्यं तदा न शाब्दम् । उभयजन्यत्वे जातिसंकरापत्तिः । अत्राहुः । प्रत्यक्षोपस्थिते धर्मिणि यंत्र शब्दादितरधर्मवैशिष्टयं प्रतीयते तत्र परम्परेन्द्रियसनिकर्षस्य प्रयोजकत्वेन प्रत्यक्षत्वं मा भूदित्येवपरमर्थव्यपदेश्यमित्युक्तम् । यद्यपि तदिति तद्गुणदोषमाध्यस्थ्य, तस्य चेति तज्जातीयलिङ्गदर्शनस्य, तदिति प्रत्यक्षफलत्वामिति । - यद्यपीति । ननु बुद्धरत्र विभागः सा च फलमेव न तु करणं तत्कथं करणव्युत्पादनमत्र प्रसक्तम् । उच्यते । करणस्यापि बुद्धिरूपत्वसंभवात करणव्युत्पत्त्याऽनेन च बुद्धेर्युत्पादनमेवात्र । शब्दादीनामप्यनुमानेऽन्तर्भाव एतत्सुनिश्चितार्थमनुमानमित्यादि भाप्यदर्शनाद्भावव्युत्पत्तिमुपजीव्य करणव्युत्पत्तावपि तात्पर्य वा । लिङ्गजन्यं तत्प्रत्यक्षमपि संभवत्यत उक्तम्-अनुमितिरूपमिति। ननु लिङ्गदर्शनात्संजायमानमिति लक्षणं संस्कारेऽतिव्यापकमित्यत आह—बुद्धयधिकारादिति। संशयविपर्ययेति । ननु लिङ्गदर्शनस्य परामर्शस्यानुमितिचरमकारणत्वान्न ततः संशयः । न च सत्प्रतिपक्षस्थलेऽनुमित्यनुत्पादनात . ततः संशयः । तंत्रापि संशयस्य साधारणधर्मदर्शनजतया लिङ्गदर्शनादनुत्पत्तेः ।