________________
१२२ . गुणनिरूपणम् .. तन्त्वंश्वन्तरतन्तुसंयोगस्य विरोधी विभागो द्रव्यारम्भकसंयोगविरोधिविभागजनकेन कर्मणा जन्यताम् मूर्तवृत्तित्वाव(१) न त्वाकाशतन्तुविभागोऽमूर्तवृत्तिवादित्याशङ्कयः निराकरोति-भू मूर्तेति । प्रत्यक्षेण तथा सहचारानवसायाद्वयाप्तौ मानाभावादित्यर्थः । मूर्तेति(२) । यदि नैवं तदा पद्मपत्रकर्मणाप्याकाशविभागो न स्यादिति(३) । तत्रापि विभागजविभागोऽङ्गीक्रियेतेत्यर्थः(४) । आपरमाण्विति । साक्षात्परम्परासाधारणद्रव्यारम्भकसंयोगविरोधित्वमात्रस्य विवमितत्वादित्यर्थः । तस्मादिति(५)। . . . . .
ननु द्वितन्तुकारम्भकांशुसंयोगस्य द्वितन्तुकपटे नासमवायकारणत्वं समवायिकारणहत्तेरेव तथात्वात् । नापि समवायितया । आरभ्यारम्भकवादनिषधन पटं प्रत्यंशूनामतत्वाद । नापि निमित्ततया । तन्तुत्वेनैवान्यथासिद्धत्वात् । तथाच द्रव्यासमवायिकारणतन्तुसंयोगविरोधिविभागजनककर्मणः कथमसम. वायिकारणेतरसंयोगविरोधिविभागजनकत्वं विरोधाव। .. __ अत्राहुा । अंशुसंयोगः. पदनिमित्तकारणम् ।. न. च तत्र मानाभावः । अवयवावयवसंयोगविशेषादपि कार्यविशेषदर्शनात् ।
-
(१) मूर्तमात्रवृत्तित्वात्-इति (क) पु०। (२) मूर्तविभागजनकत्वेनेति-इति (क) पु.।। (३) न जन्येतेति-इति (क) पु०। (४) नाङ्गीक्रियेतेत्यर्थः-इति (क) पु०। (५) तस्माद्व्यारम्भकेति-इति (क) पु०।