________________
किरणावली प्रकाशः
१४१
रोध्युल्लेखे हि सः । अत्र च पनसस्य तदन्यस्य च किञ्चित्वेन कोटयुल्लेखात् । ___ अत्राहुः । विशेषनोऽनुल्लिखितनानाकोटिकं ज्ञानमनध्यवसायः। अत्रापि विशेषतः कोटयुल्लेखो नास्ति । किञ्चित्वस्य सामान्यरूपत्वात । किंस्विदित्यत्रापि तथा, विशिष्टस्योभयत्रापि सत्त्वात् । तत्र निश्चयसंशयभिन्ने तादृशज्ञाने किं मानम् । उच्यते । न तावन्जिज्ञासा निर्णयजन्या । अनुच्छेद्यापत्तेः । नापि संशयजन्या । विशिष्टकोटिद्वयानुल्लेखे तदभावात् । ततः संशयभिन्नजिज्ञासाजनकं ज्ञानमपितव्यं तदेवानध्यवसायः।
व्यासङ्गशब्देनेति। कारणवाचकशब्दस्य तत्कार्ये लाक्षणिकस्वादित्यर्थः। तस्य प्रयोजनत्वमाह-घटेति।नन्वतद्विशेपनिश्चये सत्यपि भवतीत्यत आह-विशेषनिश्चयाभाव इति। मात्रशब्देनेति । मात्रशब्दस्य सामान्यवाचित्वादित्यर्थः । ननु सामान्येन रूपेण विशेषोऽपि निश्चीयत एवेत्यत आह-विनिश्चय इति। तर्हि निश्चयाभावो ज्ञानसामान्याभावेऽप्यस्तीत्यत आह-निश्चयनिषेधेनेति। एतदेव विशदयति-सामान्येन हीति । तनिध्यवसायः कुत्रत्यंत
आह-का पुनरिति । यद्यपीदं ज्ञानं न भ्रमस्तथाप्यनिश्चयमात्रेणाविद्यात्वम्-अनुमानविषयेऽपीतीति । ननु पनसवत् सास्नापि प्रत्यक्षैव प्राणिविशेषसम्बन्धित्वं पनसवंतू पदवाच्यत्वं चोभयत्राप्यप्रत्यक्षमेव । न । चेष्टमानावयवस्य यत्रांप्रत्यक्षत्वं तस्य विवक्षितत्वाद।
उपरतशब्दस्य विनष्टमर्थ निवारयति-स्वकार्यादिति । तंत्र हेतुमाह-प्रलीनेति । मनसः प्रलयाभावादाह-निरिन्द्रियेति ।