________________
१४०,
गुणनिरूपणम् ‘मिति। प्रवृत्तिस्थले प्रवर्तकेष्टभेदाग्रहवन्निवर्तकानिष्टभेदाग्रहस्य, सत्वानिवृत्तिरपि स्यादित्याह-अस्मन्नयः इति । यदि चानिष्टाभेदग्रहस्तदानिष्टः एवानिष्टभेदग्रहादन्यथाख्यातिः: स्यादित्याहअन्यथेति । अथानिष्टाभेदग्रहो निवर्तकः इति प्रवृत्तिस्थले तदभावान, निवृत्तिः तदा इष्टाभेदग्रहस्य प्रवर्तकस्याभावान प्रवतापीति शङ्कोत्तराभ्यामाह-तथापीति । न च स्वातन्त्र्योपस्थितानिष्टभेदाग्रहो निवर्तको न चानिष्टस्याभावविशेषणत्वोपस्थितेन तदभेदाग्रहो निवर्तक इति वाच्यम् । अभावविशेषणत्वेनोपस्थितेः प्राक् तत्रापि स्वातन्त्र्येणानिष्टोपस्थितः । यदि च भेदाग्रहात प्रवृत्तिस्तदा क्वचि. दपि विशिष्टज्ञानं न सिध्येत्तत एव सर्वव्यवहारसिद्धरित्याह-न च सर्वत्रेति।अधिकस्तु पल्लवोऽन्वीक्षातत्त्वबोधे तात्पर्यपरिशुद्धिप्रकाशे चास्माभिः कृत इति नेह प्रतायते ।।
विशेष इति । उपलब्धे धम्मिणि विशेषतोऽनुपलब्धकोटिकमित्यन्वयः। यद्यपि घटोऽयमिति निश्चयोऽप्युपलव्धे धम्मिणि . घटे भवति, विशेषतश्च नीलः पीत इत्यनुपलब्धकोटिकः। तथा'प्यनध्यवसायस्य सामान्यतो विरोध्युभयकोटिकत्वम् । घटोऽयमित्यत्र न तथा । अत एवायमिति । विरुद्ध नानाप्रकारकमेकधम्मिकं ज्ञानं संशयः । अनुल्लिखितनानाप्रकारकमेकधर्मिकं ज्ञानमध्यवसाय:।
यद्वा । सामान्यतो विरोधिनानाकोटिकं. ज्ञानमनध्यवसायः । ननु पनसः स्विदयमिति ज्ञानं न संशयः। विशेषतो विरोधिकोट्यनुल्लखात । नानध्यवसायः । अनुल्लिखितनानाप्रकारकावि