________________
१४२
गुणनिरूपणम् इन्द्रियद्वारेणैवेति। यथेन्द्रियव्यापारजे ज्ञाने चक्षुरादिना जानामीति तथेन्द्रियव्यापाराभावेऽपि चक्षुषा पश्यामीति ज्ञानमित्यर्थः । इवशब्दार्थ सादृश्यमाह-पूर्वज्ञानेति । क्वचिदिन्द्रियद्वारेणैवेति पाठः । तत्र ह्यपरतेन्द्रियवर्गस्य स्वप्नः कथमिन्द्रियद्वारेणैवेत्यत आहपूर्वज्ञानेति । पूर्वज्ञानप्रत्यवेक्षकत्वमिन्द्रियद्वारकतानुव्यवसायः । तेनेन्द्रियद्वारेण यदनुभवनमित्यस्य व्याख्येयग्रन्थस्यायमर्थः। इन्द्रियद्वारेणैव योऽनुभवोऽनुव्यवसीयत इत्यध्याहारात । एतदेव स्पष्टयति-यत्रासत्यपीति।संविष्टः सप्तः-तथापीन्द्रियद्वारकतेति। यद्यप्येतावता स्वप्नानुव्यवसायस्यायथार्थत्वसिद्धौ शय्यायां संविष्टस्तिष्ठामीत्यनुव्यवसायात्मकस्वप्नस्य नायथार्थत्वं सिध्यति । तथापि स्वप्नत्वेन तत्रापि बाधितविषयत्वमनुमेयम् बुद्धिर्न साक्षात् प्रयत्नजननीत्यत आह-इच्छेति।वातादिजन्यशरीरस्पन्दव्यावर्तनार्थमाह-चेष्टेति । हृदयान्तर्मनःमाप्तिं विना मनो न हृदयान्तर्निश्चलं तिष्ठति प्राप्तिपूर्वकत्वादवस्थानस्येत्यर्थः । पूरयति-अन्तर्हृदयं प्राप्येति । ननु निश्चलत्वं स्पन्दशून्यत्वं तिष्ठत्यर्थोऽपि सएवेति पौनरुक्तयमित्यत आह-सहसैवेति। पूर्वग्रन्थेन सम्बद्धीकर्तुमुक्तंपुनः सहसैव न चलति । तदेतीति । अत्राप्यदृष्टकारितेति ।
ननु शरीरतदवयवक्रियैव प्रयत्नवदात्मसंयोगासमवायिकारणिका प्राणक्रिया तत्प्राणवहनाडयभिघातादेव । तत्र हि प्रयत्नवदात्मसंयोगासमवायिकारणत्वेऽपि प्राणत्रहनाडीक्रियायाः प्रयत्नचदात्मसंयोगोऽसमवायिकारणं वाच्यः तस्याश्चेष्टात्वात् । तथा च