________________
१६२ गुणनिरूपणम् ....
. अत्राहुः । प्रसिद्धं च तदन्वित इत्यत्र प्रकर्षण सिद्धं प्रसिद्धमित्युच्यते । प्रकर्षश्चायमैव यदसत्सतिपक्षितत्वमवाधितत्वं च । सर्वमसिद्ध एवेति । सर्वत्र हेत्वाभासे. व्याप्तिपक्षधर्मताममित्यभावादित्यर्थः। " . . . . . . . . . . . ... : : अधिकस्यति । अबाधितस्य चासत्मतिपक्षितस्य चेत्यर्थः । न वाच्येति । नौदाहर्तव्येत्यर्थः । निराश्रयस्य हेतोरिति । ... . ननु वन्ही धूमो गमको न, गमकं च भमेयत्वमिति निराश्रयोऽपि हेतुरूपन्यस्यते . विधीयते प्रतिषिध्यते च । अथ पक्षता विना न हेतोर्गमकत्वं तर्हि . बाधकत्वादिज्ञानव्यतिरेकेणापि न हेतोर्गमकत्वमिति तुल्यम् । . . .
प्रबाहुः । बाधसत्प्रतिपक्षत्वज्ञानाभावमात्रमनुमितिहेतुर्न वाधितत्वादिज्ञानमपि । पर्वधर्मताज्ञानं च सर्वत्रानुमितौ हेतुरिति विमावयितुं पक्षधर्मतोदाहृतेति.। . . ... . .... - तत्रानुमेयेनेति । यद्यप्येतदन्वयव्यतिकिण्यतिव्यापकम् । तथाप्यनेनोपाधिनाऽन्वयव्यतिरेक्यप्यन्वय्येव । लक्षणं तु अत्यन्ताभावाप्रतियोग्यत्यन्ताभावाप्रतियोगित्वम् । एतावन्मात्रमनैकान्तिकेऽप्यस्तीति हेतुत्वेन विशेष्यम् । पदमेव चेति-अनुमेयेन सम्बदमित्येतावन्मात्रमेव चेत्यर्थः । एतदसाधारणानैकान्तिकेंऽप्यस्तीति हेतुत्वेन विशेष्यम् । लक्षणन्तु पक्षत्तित्वे विपक्षव्यात्तत्वे च सति असत्प्रतिपक्षत्वमेव । समस्तन्विति । प्रसिद्धं च तदन्विते तदभावे च नास्त्येवेति द्वयविशिष्टमित्यर्थः । यद्वा । उभयव्याप्तिरनेन साध्यसाधकत्वं तल्लक्षणम् । अवाधितसत्मतिपक्षितत्वश्व