________________
१७०
. गुणनिरूपणम् वृत्तित्वात् । नापि साधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवकत्वम्। सांधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्त्वस्येति षष्ठ्यर्थोन व्याप्यव्यापकभावः । व्याप्यत्वस्याव्याप्यनिरुक्तेः । नापि नाप्यज्ञापकभावस्तदर्थः । व्यभिचारिसाधारण्यात् । ... .
अथ संबन्धमात्रं व्याप्तिः । व्यभिचारिसंबन्धस्यापि केनचिद् व्याप्तित्वात् । धूमादिव्याप्तिस्तु विशिष्यैव निर्वक्तव्येति चेत् ।
इदं व्याप्तिस्वरूपं निरुच्यते व्याप्तिपदप्रतिनिमित्तं वा ?
नायः। तृतीयलिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरूपणप्रस्तावेऽस्यार्थान्तरत्वात् । सम्बन्धमात्रज्ञानादनुमित्यनुत्पत्तेः । नापरः । संबन्धज्ञानेऽपि व्याप्तिपदापयोगात । नाप्यविनाभावः । केवलान्वयिन्यभावाद । नापि कायंसंबन्धः । न हि कृत्स्नस्य साधनस्य साध्येन संबन्धः। कस्या अप्यग्निव्यक्तः सकलधूमसंवन्धाभावात् । नापि कृत्स्नस्य साध्यस्य साधनेन संबन्ध: + कस्यापि धूमस्य कृत्स्नवह्निसंबन्धाभावात् । उच्यते । यावत्स्वव्यभिचारिव्यभिचारिसामानाधिकरण्यमनौपाधिकत्वम् । . . . .
वस्तुतो यत्संबन्धितावच्छेदकरूपतत्त्वं यस्य तस्य सा व्याप्तिः । धूमस्य वन्हिसंवन्धित्वे धूमत्वमेवावच्छेदकम् । धूपमात्रस्य वन्हिसंबन्धात् । वन्हेस्तु धूमसंवन्धित्वे न वन्हित्वमवच्छेदकम् धूमासंवन्धिनि गतत्वात् । किन्वाट्टैन्धनप्रभववन्हित्वम् । तादृशं व्याप्यमेव । अधिकस्तु पल्लवोऽन्वीक्षातत्त्वबोधे न्यायनिवन्धमकाशे चास्माभिः प्रदर्शित. इति तत एवाधिगन्तव्यः ।
अयमपीति। अनौपाधिकः संवन्ध इत्यर्थः। तन्निदानीभू