SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १७४. गुणनिरूपणम् .... सान्तरं स्यात् । न तु व्याप्त्यभावत्वेनासिद्धि। .. . . . मैवम् । उपजीव्यत्वेऽपि स्वतो दूषकत्वाभावात् । न ह्यन्यस्य साध्यव्यापकसाधनाव्यापक़ताज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने स्वतःप्रतिवन्धकम् । व्यभिचाराज्ञानस्य तद्धतुतया तज्ज्ञानस्य तथात्वात् । तथा च व्यभिचारज्ञानजनकतया स दृषक इति दृषकतायां परमुखनिरीक्षणत्वादसियुपजीव्योऽप्युपाधिः सिद्धसाधनवन्न पृथक् हेत्वाभासः। . अस्फुटश्चेति । यथोपाधेय॑भिचारोन्नायकत्वेन दुषकत्वं न तु स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापकतया तथा वक्ष्यामः । ननु. तदभाव एवति । योग्यानामुपाधीनां योग्यानुपलब्ध्याऽभावनिश्चयेऽप्ययोग्यानां तेषां कथमभावः प्रत्येतव्यः। अनुमानान्तरण तदवगमेऽनवस्थानादित्यर्थः। . . : . प्रमाणपदवीमिति । यद्यप्युपाध्यभावः कथं निश्चय इति प्रश्ने नैतदुत्तरं प्रमाणपथावतीर्णस्योपाधेः शङ्कनीयत्वेऽप्युपाध्यभावानिश्चयस्य तादवस्थ्यात् । तथाप्युपाध्यभावनिश्चयाभावः किमुपाधिशङ्काया दुष्परिहरत्वेन तद्गाहकमानाभावेन वा । द्वितीयमग्रे दुषणीयम् । ... __आद्यं दृषयति-प्रमाणपदवीमिति । ननु प्रमाणपथावतीर्ण एवोपाधिः शङ्कयतां तथाप्यवान्तरविशेषो नास्ति व्यभिचारशङ्कायाम, तथा च कथं व्यभिचारशङ्कयानुमानमित्यत आह-तदयमिति । व्यभिचार एवेति । व्यभिचारे साध्याभाववत्तित्व इत्य; यः न खनकान्तिके। तेन बाधविरुद्धयोरपि व्याप्त्यभावः सिद्धयति ।
SR No.010622
Book TitleKinrnavali Prakash
Original Sutra AuthorN/A
AuthorVardhaman Upadhyaya, Badrinath Shastri
PublisherVardhaman Upadhyaya Badrinath Shastri
Publication Year1936
Total Pages107
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy