________________
__२२०
गुणनिरूपणम् . स्वतो दूषकत्वाभावात् । पक्षत्वविघटनद्वारा तस्य दुपकत्वात् । __एवमसिद्धरपि वाध एवोपजीव्यः। साध्याभावज्ञानप्रमात्वानिश्चयादेव __ संदेहघटितपक्षत्वपरिघटनात् । अधिकं तु न्यायनिवन्धप्रकाशे तत्त्व.
बोधे च विपश्चितमस्माभिः। - घनमिति । निविडमित्यर्थः । धमिग्राहकानुमानानामपि विरोधित्वमुपपादयति-आकाशमिति । अभ्युपगतविरुद्धत्वमुपपादयति-क्षीरेति । ननु वैशेषिकशास्त्रविशेषोऽचेतनं तस्य चेतनधर्माभ्युपगमो न सम्भवतीति व्याचष्टे-विशेष इति । ननु सत्कार्यपक्षे मानाभावात् कथं तेन विरोध इत्यत आह-विवादेति ।
ननु दृषणान्तरदुष्टत्वादत्र व्याघातः कथं दूपणमुच्यत इत्याशयेन दृषणान्तरमुद्धर्तुमाह-यद्यपीति । कृतिविषयत्वं कार्यत्वं न सतः, असत एव कार्यत्वादिति न दूषणम् । क्रियाविषयत्वस्य कार्यत्वात् । क्रियात्वस्य चोत्पत्तिसाधारणत्वात् । करणेति । करणव्यापारात्मागपीति साध्यविशेषणेन विशिष्टस्य साध्यत्वात सपक्षाभावान्न ततो व्यावृत्तिरिति नासाधारण्यमित्यर्थः । नापीति । घटो जायत इत्यस्य जनिक्रियां प्रति कर्ता भवतीत्यर्थादसतश्चाकर्तृत्वात् कारकव्यापारात्माक् सत्वमवश्यवाच्यमिति नाप्रयोजकत्वमित्यर्थः।
एतच्चोपलक्षणम् । असञ्चेत् कारणव्यापारात्पूर्व कार्य, न तर्हि तस्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यम् । असत्त्वं चेत्कार्यधर्मस्तथाप्यसति धर्मिणि न तस्य धर्म इति कार्यस्य सत्त्वं लब्धमित्यपि विपक्षवाधकं ट्रष्टव्यम् ।