Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 102
________________ २१८ : गुणनिरूपणम् : विप्रतिपत्तिश्च स्वरूपविषयैव । अत एव शब्दोऽनित्यतया प्रतिपत्तव्य इत्येव प्रतिज्ञार्थो लक्षणया शब्दोऽनित्य इत्यनेनोच्यते । तथाच वस्तुस्वरूपाद्विवादार्थादन्यः प्रतिज्ञार्थः पुनरभिधेय एवार्थभेदात् । अवयवान्तरादपि साक्षाद्वति पक्षं प्रतिक्षिपति-तृतीय इति । आक्षेपतो वेति पक्षं निरस्यति-नापीति । अपेक्षाकाले आकाङ्क्षाकाले । अन्यस्येति। तत्कल्पने आक्षेपकस्यावयवान्तरस्यैवाभावादित्यर्थः । ननु साध्यमप्रतिज्ञायापि साध्यमतिपत्त्यनुकूलहेत्वाद्यभिधानेऽपेक्षितसिद्धिः स्यादित्यत आह-अपेक्षितकरणेऽपीति। यदि च प्रतिपाद्याकाङ्क्षाक्रममनपेक्ष्याभिधानं तदान्यत्रापि तदपेक्षा न स्यादित्याह-वाक्यसामग्रीति । पक्षमुद्दिश्य साध्यविधानात् पक्षं प्रथमं निर्दिशति--वायुव्यमिति । अनुमानादेवेति । अनुमानमन्वयि साध्यप्रसिद्धौ स्यात् । व्यतिरेक्यपि यदि वन्हि पक्षीकृत्य क्रियते तदा सिद्धसाधनमन्यस्य पक्षत्वे बाध इत्यन्धपरम्परार्थः । . अत एव हीति । अनैकान्तिकापक्षधर्मत्वोपजीव्यत्वादेव सर्वत्र यदुपजीव्यं स्वतो दूषकं च तदेव पृथक् हेत्वाभास इत्यर्थः । . ननूपजीव्यत्वं न वाधमवगम्यवावगमः । तमनवगम्यापि शब्दानुमानाभ्यां तद्ग्रहात् । वस्तुत एकत्र धर्मिणि साधनसाध्याभावाविति समूहालम्बनरूपैकैव प्रतीतिः साधनसाध्याभावयोः सामानाधिकरण्योल्लेखिनी। अन्यथा धर्मिणि साध्याभावप्रमादशायां यदि साधनस्य ज्ञानं तर्यसिद्धिः स्यादित्येकवित्तिवेद्यत्वं तयोरिति नोपजीव्यत्वम् । नापि वाघमुपजीव्यैवोद्भावनं तत् । असिद्धेः।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107