Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 103
________________ किरणावलीप्रकाशः २१९ न हीदमनकान्तकमित्युक्तेः परस्य कथन्तावश्यकी । _ अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण बाधकस्य दपणत्वेन कृप्तत्वादनुमितावपि स एव दोपः । मैवम् । तथा सति बाधस्य हेत्वाभासत्वव्याघातः । अनुमित्यसाधारणदोपस्यैव तत्त्वात् । अथ पक्षाभिमते साध्याभावग्रहवत् साध्याभावव्याप्यग्रहोऽपि दृपकः विरोधित्वाविशेषात् । एवञ्च साध्याभावसामानाधिकरण्यमनैकान्तिकत्वम् । साध्याभावव्याप्यसामानाधिकरण्यं वाधः । __ मैवम् । पक्षाभिमते साध्याभावग्रहस्य दृपकत्वासिद्धौ दृष्टान्तानुपपत्तेः । सिद्धौ वा तस्योक्तरूपवाधानन्तर्भावे पष्ठहेत्वामासापत्तेः । उक्तरूपश्च वाधः पक्षाभिमतविषयकसाध्याभावबुद्धौ सत्यामसत्यां वा । आधेऽनैकान्तिकत्वमेव । साध्याभावसामानाधिकरण्यग्रहात् । अन्त्ये लिङ्गत्वाभिमतसाध्याभावव्याप्ययोरगृह्यमाणविशेषतया सत्प्रतिपक्ष एव दोपो न वाधः । ___ उच्यते । पक्षत्वाभिमते धर्मिणि साध्याभावज्ञानस्य प्रमात्वमा निश्चित्य व्यभिचारादि ज्ञातुमुद्भावयितुं च न शक्यमित्युपजीव्यस्वाद्वाधः पृथक् । तथाहि । साध्याभाववत्तित्वनिश्चयः साध्याभावनिश्चयाधीनः । तन्निश्चयश्च न साध्याभावज्ञानमात्रात् । विशेपदर्शनेऽपि भ्रमादर्थनिश्चयापत्तैः प्रामाण्यानुसरणवैयापत्तेश्च । किन्तु साध्याभावज्ञानस्य प्रमात्वनिश्चयात् । न चैवमसिद्ध्युपजीव्यत्वेन सिद्धसाधनमपि पृथक् स्यादिति वाच्यम् ।. उपजीव्यत्वेऽपि

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107