Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 100
________________ २१६ गुणनिरूपणम् प्रत्येकमानुपूर्वीविशेषविशिष्टस्य पदत्वात् तस्याश्चाननुभवत्वादित्यत आह - एकार्थेति । प्रत्येकमानुपूर्वी विशेषविशिष्टवर्णानुभवजनितसंस्कारेभ्यस्तादृशवर्णगोचरायाः समूहालम्बनैकस्मृतेः संभवात । पदार्थमत्ययस्यान्यथानुपपत्तस्तावत्संस्काराणां युगपद्बोधकल्पनात् । पदत्वप्रतिसन्धानं विनैकवर्णमात्रग्रहात् संकेतस्मृतेरभावात्तां विना पदार्थस्मृतेरभावात् । न च वर्णानुभवेऽपि तत्तदानुपूर्व्यनुभवान्न पदत्वप्रतिसंधानम् पूर्ववर्णध्वंसविशिष्टापरवर्णस्यानुपूर्वीत्वात्तस्यापरवर्णानुभवकाळ एवानुभवात् । वाक्यार्थज्ञाने च पदार्थानामानुपूत्र न कारणमित्यर्थः । अन्यथा स्फोटस्य वर्णाभिव्यक्तत्वपक्षे किमेकैकं वर्णानां स्फोटाभिव्यञ्जकत्वमथवा मिलितानामिति विकल्पे यथोक्तदोषापत्त्यानन्यगत्या त्वयाप्येषैव रीतिरनुगन्तव्येत्याहअन्यथा त्विति । एवं वाक्यमपि पदान्येकस्मृतिसमारूढानि जनयन्तीत्यनन्यगत्या स्वीकर्तव्यं नानापदानामेकपदत्वानुभवादित्याहपूर्वपूर्वेति । तत्र प्रकारान्तरेणापि प्रतीत्युपपत्तिमुपन्यस्य निराचष्टेतथाचेत्यादि । लब्धेति । श्रोत्रसंस्काराभ्यां सदसद्वर्णावगाही स्मृत्यनुभवो विचित्रप्रत्यय एवार्थप्रत्यय हेतुरित्यर्थः । समानतन्त्रादीति । अयमर्थः । स्मृतिनिचयसहितस्यान्त्यवर्णानुभवस्यैककालासंभवात् अन्त्योपान्त्यवर्णस्मृत्यनुभवयोरेकदा न संभवः । अन्त्यवर्णानुभव एवोपान्त्यस्मृतिरुत्पद्यते । एवं विनश्यदवस्थोपान्त्यवर्णानुभवाद्विनश्यदवस्यान्त्यवर्णानुभवयोरपि नार्थप्रतीतिहेतुत्वम् | अन्त्यवर्णानुभवकाले पूर्ववर्णानुभवाभावात् । स्मृत्यनुभवरूपमेकं ज्ञानं जातिसाङ्कर्यादेव नास्तीति ॥

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107