Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 99
________________ किरणावलीप्रकाशः २१५ शक्तिः । तज्ज्ञानानां कारणत्वेऽपि न तत्राभिधाशक्तिकल्पनम् । तस्याज्ञातस्यैव देतत्वात् । मैवम । लिप्यादिस्मृतानामप्यतीतानागतत्वादवोधकत्वापत्तेः। स्वमतेन बोधकमाह-न च येनेति। गौरवस्येति। यथाभिहितान्वयवादिनां शक्तिस्वीकारे गौरवं तथान्विताभिधानवादिनां वाक्यार्थे संसर्गविशेपे पदानां शक्तचन्तर स्वीकारे गौरवमित्यर्थः । ज्ञातानां पदार्थानामकारणत्वे तु वीज व्युत्पत्तिकाल एव प्रयोजकवाक्यश्रवणानन्तरं प्रयोज्यव्यापारदर्शनादर्थादन्वितज्ञानोपपत्यर्थमन्वितबोधकत्वं शब्दम्यव गृह्यते । तदर्थ तन्निर्वाहार्थमर्थोपस्थितिरपि सहकारिणी कल्प्यन इति न तथैव शब्दस्यान्यथासिद्धिः । शब्दतदर्थयोरुपस्थितयोरन्ययबोधकत्वात् । कुत्र करणत्वमिति संशये प्रथमोपस्थितत्वादन्वितस्वार्थप्रतिपादनपरत्वात्पदानामन्वयवोधकत्वम् । पदार्थस्मृतिस्तद्वयापारः कल्प्यत इति ॥ अर्थप्रतिपादकत्वं शब्दत्वं न पञ्चावयववाक्यस्य, किन्तु तदभिव्यक्तस्य स्फोटस्येति पञ्चावयववोधकमिति मतमुत्थापयतिस्यादेतदिति। तत्र चतुर्णा प्रत्येकं मिलितानां वा नान्वयवोधकत्वमित्यर्थापत्तिनमानमन्योन्याश्रयादित्याह-यद्यपीति। तथापीति। गोपदमेकमित्यनुभवः पदैकगोचरो न नानावर्णविषयक इति तद्भिअमेकं स्फोटाख्यं पदं बोधयति । अभिन्नार्थमभिन्नमेकमर्थं साधयसीत्यर्थः ।अत एवेति।[अर्थः] पदार्थस्तस्य संबन्धः संकेतस्तस्याख्यानं वोधनमप्युपाधिर्नास्त्यत एव परस्पराश्रयस्यानुपूर्वीविशेषविशिष्टस्य पदत्वात् । तस्याश्चाननुभवत्वादित्यत आह-एकार्थेति ।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107