Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः ण्ये आप्तोक्तत्वमनुमीयते ।।
ननु विपर्यस्ताव्युत्पन्नयोरजिज्ञामुत्वात् कथं व्युत्पाद्यत्वमित्यत आद-प्रकृतमिति । तदनेनेति। तथाच परार्थानुमाने पञ्चावयववाक्यं विना न समस्तरूपोपेतलिङ्गप्रतिपादनमिति न व्यभिचार इति भावः । ननु पक्षावयववाक्यं स्वार्थानुमितौ न यदि प्रयोजक तत्कथं परार्यानुमितौ तथेत्यत आह-न होति। पदानि पुनरिति। व्यवहाराच्छक्तिग्रहे तत्कारणतयोपस्थिते इतरान्विते स्वार्थे पदानां शक्तिग्रहादितरान्वितं स्वार्थं स्मारयन्ति पदानि वाक्यार्थज्ञाने लिङ्गम् । ___ या पदार्थमात्रज्ञानशक्तिग्रहात्तन्मात्रं स्मारयन्तीति विचारोऽस्माकं निप्पयोजनो न निराक्रियत इत्यर्थः । यद्यपि शब्दस्यास्वातन्त्र्येण प्रामाण्यानभ्युपगमेऽपीतरान्वितानन्वितपदार्थयोः शक्तिरस्त्येव । तथापि स्वातन्ध्येण प्रामाण्यानभ्युपगम आर्द्रकवणिक्त्वे हेतुः । अन्यथापीति । इतरानन्वितपदार्थमात्रशक्त्यापीत्यर्थः । पदार्यशक्तत्वेन ज्ञातानि पदान्याकाङ्क्षादिसाचिव्यादन्वितं स्वार्थ बोधयन्तीति नान्वये शक्तिः । किञ्चान्विते शक्तिरित्यस्य . यत्र शक्तिस्तत्पदार्थान्वितमित्यर्थः। तदास्मत्पक्षेऽपि तत्संभव इत्याह-यत्र व्युत्पत्तिरिति । व्युत्पत्तिः शक्तिः । न हि सामान्यतः इति। न च पदादन्यदन्वितसामान्योपस्थापकमस्तीति भावः। आक्षेपतोऽपीति । क्रियाकारकयोर्मियो व्याप्यत्वादेकेनापरस्यानुमानात् सामान्यतोऽन्वितज्ञानमस्तीति तद्विशेषे जिज्ञासा स्यादित्यर्थः । अपि च पदानां स्वार्थान्वये वाशक्तिरन्वितस्वार्थे वा । आधे सर्वपदार्थाना-.

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107