Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 95
________________ किरणावलीप्रकाशः २११ मैत्र । भूतलवृद्धयोर्निप्पनियोगिकत्वेन समतियोगि काभावस्वभावत्वाभावात् । न चाभावो न सप्रतियोगिकः किन्त्वभावव्यवहार इति युक्तम । उह घटो नेति प्रतीत्या नञर्थस्यैव सप्रतियोगिकतया विषयीकरणात् । न त्वभावज्ञानोत्तर कालभाविनस्तद्वयवहारस्य । तस्याभावज्ञानकालेऽप्रतीतेः व्यवहर्तव्यज्ञानस्य सत्यामिच्छायां व्यवहारेऽधिकापेक्षाया अदृष्टचरत्वात् । किञ्च । ज्ञानाभावस्याचाक्षुपत्वादभावश्चाक्षुपो न स्यात् । अपि चाधिकरणज्ञानयोरभावले आधागधेयमनीत्यनुपपत्तिः । स च यस्मिन्कालविशेषे भूतन्यादावभावः स्वीक्रियते तत्कालविशेषयोग एव भूतलस्याभाव इति तटुपपत्तिः, तत्कालयोग्यस्य भतलवृत्तित्वादिति वाच्यम । इदानीं भूतले घटाभाव इति प्रतीत्यनुपपत्तेः । तत्कालविशेषे तत्कालविशेषयोगाभावात् । संसृज्यमानेति । संसर्गावच्छिनप्रतियोगिको भावः संसर्गाभावः । तादात्म्यावच्छिन्नप्रतियोगिकोSभावस्तादात्म्याभावः । प्रतियोगिनमारोप्य यत्र निषेधधीः स संसर्गाभावः । प्रतियोगितावच्छेदकमारोप्य यत्र निषेधज्ञानं स तादात्म्याभाव इत्यस्मत्पितृचरणाः । चरमसामग्री प्रागभावग्राहकं रूपमुपन्यस्तम् । लक्षणं स्पन्दवत् । कालमात्रवृत्त्यभावत्वं प्रागभावत्वम् । प्रागभावप्रतियोग्यभावः प्रध्वंसः । एतद्द्वयातिरिक्तः संसर्गाभावोऽत्यन्ताभावः । घटवत्संसर्गेति । घटस्य तत्समवायस्य चात्यन्ताभावो यदि विषयः स्यात् घटवत्यपि भूतले प्रसङ्ग इत्यर्थः । संसर्गविशेषेति । संसर्गविशेषः संयोगलक्षणः । तदत्यन्ता मावालम्वनत्वमित्यर्थः ।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107