Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२०८ गुणनिरूपणम् प्रमाणत्वपक्षेऽपि कीदृशेन भूतलेन सा निरूप्यतेत्यर्थः । नन्वभावधीन प्रत्यक्षा येन वैजात्यान्न व्यभिचारः। न चेन्द्रियान्वयव्यतिरेकानुविधानात्तथा। इन्द्रियेण प्राप्त्यभावात्तयोराश्रयग्रहोपक्षीणत्वमनुमिताविवेत्याह-स्यादेतदिति । एवं तर्हि रूपादिधीरपीन्द्रियजन्या न स्यादाश्रयग्रह एवेन्द्रियोपयोगात् । अथ साक्षात्करोमीत्यनुव्यवसायात्तत्र तथा तुल्यमिहापीत्याह-भवेदेवमिति। अत एव नेन्द्रियायोग्यत्वमपीत्याह-न च योग्यताया इति । तथा . सतीति । योग्यताव्यतिरेके सति साक्षात्कारव्यतिरेकः तस्मिंश्च सति योग्यताव्यतिरेक इत्यन्योन्याश्रय इत्यर्थः । तहि यत्रोति । अमावेनापि सहेन्द्रियाव्यवधानात् सोऽपि साक्षात्कारविषय इत्यर्थः। ननूक्तमिन्द्रियेण प्राप्तिर्नास्ति । न चेन्द्रियं प्राप्तविशेषणमप्राप्तमपि गृह्णाति । न च विशेषणताप्राप्तिः । समवायानभ्युपगमेनान्यत्र तदकल्पनात् । न चाभावस्यन्द्रियकत्वादिहैव तत्कल्पनम् । अन्योन्याश्रयात् । विशेषणताकल्पनायां तत्सिद्धेस्तसिद्धौ च विशेषणताकल्पनमिति । तस्मादिन्द्रियमाश्रयग्रह एवान्यथासिद्धम् । योग्यानुपलब्धिधीरेवाभावधीकरणम् । त्वयापीन्द्रियसहकारित्वे तस्या हेतुत्वोपगमात् । तदुपलम्भे तदभावाग्रहादित्यत आहयदि चेति । इन्द्रियस्याश्रयग्रहेणान्यथासिद्धावर्थस्य नीले पटे रक्ताभावोपलम्भः स्यात् । आश्रयग्रहणप्रतियोगिस्मरणयोग्यानुपलब्धीनां सत्त्वादित्याह-अर्थस्यापीति । ममापीति । अर्थस्य तु रूपग्राहकेण चक्षुपा न पटस्योपलब्धिरिति नातिप्रसङ्ग इत्यर्थः।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107