Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 91
________________ किरणावलीप्रकाशः २०७ नमिति भावः । नन्वेकग्रहणज्ञानयोग्यतायामपि संस्कारोबोधकवशात्किञ्चिदेव स्मर्थने न सर्वमित्यस्मरणमन्यथासिद्धम् । अत्राहुः । यदभूतलं घटादितुल्यपरिमाणवद्र्व्यवत्तत्काले भवति तदद्रव्यवत्तया तभूनल मया स्मर्यत एव परमिति व्याप्तिः । तथाच स चत्रो न तत्काले भून लवर्ती घटादितुल्यपरिमाणत्वे सति तत्काले नभनलवर्तितया मयेदानीमस्मर्यमाणत्वात् मैत्रवत् । न चाप्रयोजकत्वम् । यदि स चैत्रो घटादितुल्यपरिमाणत्वे सति तत्काले तदभूनलवर्ती स्यात्तदेदानीं तदभूतलवर्तितया घटवत् स्मर्येतेति तर्कसदभावात् । नवमिति । भतलस्य पक्षत्वे ज्ञानाभावो व्यधिकरणो न लिङ्गम् । तस्य प्रतियोगिसमानदेशत्वे नानात्मटत्तित्वादिति शङ्कार्थः। भृतलेति । ययप्यभावस्य सविपयकत्वं नास्ति । तथापि भूतल. विपयकज्ञाननिरूप्यत्वमेव भूनलज्ञानाभावयोः सम्बन्धः । परस्य त्विति । तन्मते त्वनुपलब्धिलिङ्गतया न प्रमाणं येन व्यधिकरणिका न गमिका । किन्त्वात्मन्येव वर्तमाना स्वातन्त्र्येण प्रमायां करणमित्यर्थः । वस्तुगत्येति। नाभाववत्तया ज्ञायमानेन । येनोक्तदोषः स्यादित्यर्थः । तदेव विशदयति-न चेति । वस्तुतो घटबद्भतलं घटाभावाभावादित्यर्थः । सत्तामात्रेणेति । अभावस्येति शेषः । ननु घटाभाववता भूतलेनानुपलब्धिनिरूप्यतां नाभाव इत्यत आह-यदि त्विति । तच्च जात्युत्तरमेवेति । अनुपलब्ध्यैव घटसत्त्वमसङ्गोऽनुपलब्धिसमा जातिः स्यादित्यर्थः। न चेदेवमिति। अनुपलब्धि

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107