Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२०६
गुणनिरूपणम् - वाघेऽपि भोजनसामान्यं वाधितं नास्ति । यावद्विशेषबाध हि सामान्यबायो, न चेह रात्रिभोजनमपि बाधितम् । एवञ्च भोजनसामान्यमादाय योग्यताज्ञानं भविष्यति रात्रिभोजनाज्ञानेऽपि । ___ यत्पुनरिति । यथाभूतस्य यस्य गमकत्वं तथाभृतस्यैव लिङ्गत्वं स्यादिति भावः । न हि कार्यमिति । यद्यपि शतसंख्या कार्या न सहस्रसंख्या । तथापि शतारम्भकैकत्वारभ्यत्वं सहस्रस्यास्तीति शतसहस्रसंख्ययोः कार्यकारणभाव उक्तः ॥ ____ कचित्प्रत्यक्षामिति । इन्द्रियव्यापारान्वयाद्यनुविधानादित्यर्थः । ननु चाभावो न प्रत्यक्षः। इन्द्रियेण संनिकर्षाभावात् । न च विशेषणतामाप्तिः। समवायानभ्युपगमेनात्र तदकल्पनात् । नाप्यभावोऽनुमानम् । तस्याप्रत्यक्षस्याज्ञायमानतयालिङ्गत्वादित्याहनन्वभावस्येति। तस्याभावस्येत्यर्थः सचाभाव इति। अभावप्रतीतेः साक्षात्कारित्वेनेव प्रत्यासत्त्यन्तराभावेन विशेषणतायाः प्रत्यासत्तेः कल्पनादित्यर्थः । न विहेति । तथाच साक्षात्कारिवासिद्धौ न ततो विशेषणताकल्पनमित्यर्थः । वैजात्यादिति । प्राङ्नास्तितायामभावधारानुमानिकी न प्रत्यक्षा । तथाच प्रत्यक्षा- भावप्रतीतौ नेन्द्रियव्यभिचार इत्यर्थः । अन्यथातिप्रसङ्गमाह-तथा व्यभिचार इति । एकजातीयत्त्वाभावेऽपि व्यभिचार्यवत्यर्थः । तस्येति । तस्येन्द्रियस्य । वज्रलेपायमानवाढव्यभिचारित्वादित्यर्थः । एकज्ञानेति । चैत्रेण सममेकग्रहणयोग्यस्य ज्ञायमानत्वेऽ. पीत्यर्थः । संयुक्तविशेषणतया मनःसंनिकण स्मरणाईस्य चैत्रस्य स्मरणाभावं गृहीत्वा तेन लिङ्गेन भूतले तदानी चैत्राभावय

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107