Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 89
________________ किरणावलीप्रकाश २०५ एव कल्प्यत इत्यर्थः । तदुपपादयति-न हीति । ननु यत्र किं पचतीत्युक्ते कलायं दर्शयति तत्र शब्दं विनापि भवत्येवान्वयबोध इत्यत आह-कचिदिति । अन्यत्र तथा कल्पनादित्यर्थः । ननु पचतीत्युक्त स्वयं स्मृतेनान्योदीरितेन वा कलायमिति शब्देनापि नान्वयबोधः । अथ तस्य पचतीत्यन्वयपरत्वं न ज्ञातमित्यन्वयबोधस्तथिकल्पनेऽपि तदर्थान्वयपरोपस्थितिरन्वयवोधाङ्गमित्यस्तु । एवं द्वारामित्यत्रापि लाघवापिधानमेव कल्प्यते न तु पिधेहिशब्दः। ___ अबाहुः । द्वारमित्यत्र पिधहिशब्दाध्याहारं विना द्वितीया न स्यात् । क्रियावाचकसमभिव्याहारं विना तत्साधुत्वाभावात् । किञ्च । यद्यन्यथोपस्थितेरेवान्वयवोधस्तदा घटमानयेत्यत्रेव घटः कर्मत्वमानयनं कृतिरित्यत्र कुतो नान्वयवोधः । अथ तथाविधपदोपस्थापितपदार्थ परस्परमाकाङ्क्षव नास्ति तर्हि पदार्थोपस्थितिमानं नान्वयवोधाङ्गम् । किन्तु पदविशेपोपस्थितः पदार्थः शब्दोपस्थापितपदार्थनान्वयप्रतियोगीति सिद्धम् । एवञ्च तत्र शब्दकल्पनात्पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्रापि रात्रौ भुङ्क्त इति शब्द एव कल्प्यते । अनुमितेनेति । यद्यपि पीनत्वं पदार्थतया नानुमेयम् । तथापि दिवसाभोजनविशिष्टं पानत्वं वाक्यार्थतयानुमेयमेव । ननु वाक्यार्थस्यानुमेयत्वेऽपि योग्यतादिकं लिङ्गविशेषणमिति भाविनः कथं पदार्थसंसर्गोऽनुमेयः। . . उच्यते । वाधकमानाभावो योग्यता । अतो दिवा भोजन

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107