Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः
२०३
नतु देशान्तरस्येन्द्रियासंनिकृष्टत्वात्कथं तत्र स्वव्यतिरेको ग्राह्यः । न । स्वात्मन्येव देशान्तरसंसर्गाभावग्रहात । ननु व्याप्तिसत्त्वेऽपि गृहासत्त्वस्य देवदत्तावृत्तित्वादपक्षधर्मतया नानुमानमित्यत आह-न चेति । गृहनिष्ठाभावप्रतियोगित्वस्य ङ्गिस्य पक्षधर्मत्वादित्यर्थः । उपरि सविता भूमेरालोकवत्त्वादित्यत्रापि यदा तदेत कालगभैव व्याप्तिर्गृह्यते । भूमेरुपरि संनिहितसवितृकत्वं वा साध्यम् । ननु व्याप्तस्य पक्षधर्मत्वमनुमानत्वम्, व्यतिरेकिणि तु व्यतिरेकयोर्व्याप्तिरन्वयस्य च पक्षधर्मत्वमतो नानुमानत्वम् ।
I
अत्राहुः । व्याप्तिपक्षधर्मतोपजीवनेन यद्बोधकं तदनुमानम् । व्यतिरेकिणोऽपि साध्याभावव्यापकाभावप्रतियोगिनः पक्षधर्मतया तद्विशेषत्वं स्यात् । व्यतिरेकव्याप्त्या वान्वयव्याप्तिरनुमीयते । यथा च विशेष्यासंनिकर्षे तृतीयलिङ्गपरामर्शस्तथा तृतीयलिङ्गपरामर्शस्थल एव व्युत्पादितमधस्तात् । न चात्रेति । जीवी देवदत्तः काप्यस्तीत्येकं प्रमाणं गेहे नास्तीत्यपरमनयोर्विरोधज्ञानं करणमविरोधज्ञानं फलमपि नेत्यर्थः । तथाचेति । एकस्मिन्धर्मिणि मिथो विरुद्धार्थग्राहिणोरेकस्य मिथ्यात्वावश्यकत्वात्तयोर्मानत्वमसिद्धमित्यर्थः । विभिन्नेति । प्रमाणन्त्वे वा भिन्नविषयत्वमावश्यकमित्यर्थः । ननु क्वचिदस्तीत्यस्य क्वचित्वेन गृहस्यापि विषयीकरणाद्गेहेऽस्तिनास्तीतिवदेकविषयतया विरोधः स्यादित्याह - सामान्यत इति । विभिन्नदेशतयेति । विषयभेदेन यदुपपादनं तत्प्रमाणयोर्वैषयिकभेदप्रतिसन्धानात् । तच्च भावाभावयोर्भिन्नदेशतयैवोपलम्भात् । तथाच व्याप्तिज्ञानमावश्यकमित्यर्थः । प्रसिद्धानुमानेति । धूमा

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107