Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२०२
गुणनिरूपणम् तर्कितेन विरोधेनानयोविरोधित्वम् । अत एव यथाश्रुतापरितोपात्तात्पर्यार्थमाह-इदमत्रेति । न तावदिति । अनियम्यानियामकयोरव्याप्यव्यापकभूतयोर्न परस्परमुपपाद्योपपादकभावः । न ह्यव्याप्यमव्यापकं विनानुपपन्नम् अपि तु व्याप्यं व्यापकं विनानुपपन्नमित्यनुपपत्तौ व्याप्तिरस्त्येवेति तत्पतिसंधानात्कल्पनमनुमानमेवेत्यर्थः । व्यतिरेकोत । वहिः. सत्त्वेन विना जीवतो गृहाभाव एव न भवतीति व्यतिरेकव्याप्तिरेवेत्यर्थः। कृतमिति । अर्थापत्तिरूपप्रमाणस्य कृतमनुमानादर्थान्तरत्वग्रहणेत्यर्थः । यथानुमानं व्याप्तिज्ञानाद्भवति, अन्यथानुपपत्तिस्तु कल्प्यकल्पकयोाप्तावपि तज्ज्ञानं विनैव प्रवर्तत इति नेयमनुमानमित्याशङ्कय निराकरोति-न चेति । अन्यथेति । अनुपपत्तिज्ञानं विनापि कल्पना स्यादित्यर्थः । अर्थापत्त्याभासेति । सत्तावस्थितव्याप्त्यैव कल्पने वस्तुतो यदुपपादकं तत्कल्पनैव परं स्वादित्यर्थः । अन्वयव्यतिरेकाभ्यां व्याप्तिग्रहोपायमाह-यदाहमिहेति। ननु जीवतो गृहासत्त्वेन वहिःसत्त्वे साध्ये वहिःसत्त्वं व्यापकं गृहासत्त्वं व्याप्यमिति व्यतिरेकव्याप्तौ वहिरसत्त्वं व्याप्यं जीवतो गृहसत्त्वं व्यापकमिति यद्योगप्राथम्याभ्यां व्याप्यस्य निर्देशायदाहं नान्यत्र तदाहमिहति वक्तुं युज्यते । एवमन्वयव्याप्तावपि यदाहमिह तदा नान्यत्रेति वक्तुमर्हति । सत्यम् । यदाई नान्यत्र तदाहमिहेति व्यतिरेकव्याप्तौ यदा नाहमिह तदान्यत्रेत्यन्वयव्याप्तौ यत्तदोय॑त्यासेन योजनात् । समव्याप्तिकत्वस्फोरणार्थमेवमुक्तमित्यन्ये ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107