Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२००
गुणनिरूपणम् ...
.
निमित्ताज्ञानान्न शब्दात्तत्फलमित्याह - भवेदेवमिति । तदुपपादयति - तथासतीति । गोरज्ञाने तन्निरूपितसादृश्याज्ञानादित्यर्थः । वस्तुतो गोसादृश्यापेक्षया गवयत्वस्य लघुत्वादिति भावः । स्वयं प्रतीतेति । यस्मिन् प्रवृत्तिनिमित्ते स्वयं व्युत्पन्नस्तव परस्य बोध - नीयम् आवश्यकश्च गवयत्व एव गवयपदप्रवृत्तिनिमित्ततया व्युत्पनस्ततस्तदेव तत्पदमवृत्तिनिमित्तं बोधयेदित्यर्थः । तथाप्यापातत इति । गोसादृश्यं वा प्रवृत्तिनिमित्तं तदुपलक्षितधर्मान्तरमिति संशये व प्रवृत्तिनिमित्तनिश्चय इत्यर्थः । अफलमिति । प्रवृत्तिनिमित्त विशेषांनिश्चायकमित्यर्थः । फलिष्यतीति । प्रवृत्तिनिमित्तं वोधयिष्यतीत्यर्थः । तात्पर्यसंदेहादिति । यदापि सादृश्यस्यैव शदोपस्थितस्य प्रवृत्तिनिमित्तत्वनिश्चयस्तदापि न वाक्यपर्यवसानम् ॥ तात्पर्यविषयाज्ञानात् । न हि भ्रान्त्यान्यादृशान्वयवोघे वाक्यं पर्यवस्यतीत्यर्थः । उपलक्षणतायामिति । गवयत्वे प्रवृत्तिनिमित्ते तात्पर्यविधारणालक्षणया शब्दस्तद्बोधक इत्यर्थः । यथाश्रुतपदार्थान्वयेनैव वाक्ये - फलिते लक्षणा न कल्प्यते । यत्र तु गङ्गायां घोष इति वदन्वय एव मुख्यार्थे न संभवति तत्र तत्कल्पनम् । "इह तु गोसादृश्यसमानाधिकरणं- गवयपदवाच्यत्वमिति शब्दा" दवगतस्याग्रेsपि न बाघ इत्याह- मन्वेवमिति । विशेषसंदेहः प्रवृत्तिनिमित्त संदेहः । अन्यथेति । यदि मानान्तरोपनीतरक्तत्वाद्यपेक्ष पटो भवतीति वाक्यं पर्यवसन्नं तदा पटभवनरक्तत्वयों
•
.
४:
·
विधेयत्वेऽर्थभेदाद्वाक्यभेदः स्यादित्यर्थः ।'
" शब्द समानविभक्तिकतामात्रम् | आयें वक्तृतात्पर्यविपयीं

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107