Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 83
________________ किरणावलीप्रकाशः अथैतदिति । ननु नैयायिकानामापत्तिरनुमानम् । न चात्र तत्सम्भवति । सा व्यक्तिरेतत्सदृशी एतनिष्ठसादृश्यप्रतियोगित्वादित्यस्यागमकत्वात् । तत्पतियोगिकैतन्निष्ठसादृश्यग्रहे तद्विशेष्यकस्य तृतीयलिङ्गपरामर्शस्याभावात् । विशेष्यस्येन्द्रियासनिकर्षात् । न च तत्मतियोगिकसादृश्ये गृहीते तस्यैव तत्पतियोगित्वे संशयाभावात समानसंविसंवेद्यत्वेनैतत्सादृश्यमतियोगित्वमपि भातमेवेति वाच्यम् । इन्द्रियसंनिकर्षाभावेन समानसंविसंवेद्यत्वाभावात् । अत्राहुः । प्रत्यक्षज्ञानस्येन्द्रियार्थसंनिकर्षजवे नियमो न तु यावन्तोऽर्थास्तद्विषयास्तावन्तः सर्वेन्द्रियसंनिकृष्टाः । अयं स इति विपरीतप्रत्यभिज्ञायां व्यभिचारात । न च विशेष्ये तथा नियम एवेति वाच्यम् । तथापि मनसैव परामर्शजननात् । ___ अथ गवयशब्दः कस्यचिद्वाचकः शिष्टैः प्रयुज्यमानत्वादिति नागरकेण निश्चिते विशेष जिज्ञासमानेन कीदृग्गवय इत्यारण्यके पृष्टे तेन च गोसदृशो गवय इत्युक्ते यदा नागरको वनं गतः पिण्डं तादृशमनुभवन् वाक्यार्थस्मरणसहकृताव सादृश्यज्ञानादयं गवयशब्दवाच्य इति प्रमिणाति तदा संज्ञासंज्ञिसंबन्धपरिच्छेद उपमानफलमित्याह-संज्ञासंज्ञिसंबन्धेति। नैवं वाक्यादेव नागरकेण यो गोसदृशः स गवय इति प्रतीतेन तदुपमानफलमित्याहवाक्यादेवेति । केवलमिति । य एवाप्तवाक्यागोसदृशो धर्मी गवयपदवाच्यतयावधृतस्तमिदानीं पश्यामीति प्रत्यभिज्ञानमात्रं दृष्टे गवये भवतीत्यर्थः । गवयपदे गवयत्वं प्रवृत्तिनिमित्तं तन्न पूर्व प्रमितम् । प्रमितं च गोसादृश्यं तन्न प्रवृत्तिनिमित्तमतः प्रवृत्ति

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107