Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाश प्रवृत्तिस्त्विति वाच्यम् । . शब्दादिदं निश्चिनोमीत्यनुव्यवसा: यात्तस्यानुभवजनकत्वे स्थिते तदनुकूलकल्पनादिति भावः ।. . - अकृतति । यंत्र हट्टादावाधुनिक एव. संकेतः क्रियत इत्यर्थः । अविनाभावेति । व्याप्ति विना. चान्येनान्यस्य स्मरणेऽतिप्रसङ्ग इत्यर्थः । तस्मात् कचिच्छन्दस्मृत्या कचिदभिप्रायानुमानेनान्यथासिद्धा न पदार्थस्मारिकेति न चेष्टा विशिष्टानुभवे प्रमाणमिति भावः । ननु यथा घटादिपदानां. शक्तिग्रहे. प्रयोजकवाक्योचारणानन्तरं प्रयोज्यस्य प्रवृत्तिदर्शनाद्वाक्यार्थज्ञाने वाक्यस्य कारणतां गृहीत्वा पश्चादावापोद्वापाभ्यां तत्तत्पदानां तत्तदर्थज्ञाने शक्तिर्गृह्यते तथा चेष्टासमूहस्य विशिष्टार्थज्ञाने हेतुत्वं ग्रहीप्यत इति चेष्टा प्रमाणं स्यादित्यत आह-स्मारयतु वेति । प्रकारभेदमाह-कृत्यन्वयिनीति । यस्यां सङ्केतयितुः कृतावभिप्रायः सा कृत्यन्वयिनी । यथा शङ्खध्वनौ यास्यसीति.। यस्यों ज्ञाने तस्याभिप्रायः सा ज्ञप्त्यन्वयिनी । यथो तर्जनीकरणे दश संख्या ज्ञास्यसीति । कारकेष्विति । प्रातिपदिकार्थमात्रं स्मयते ने स्वन्वयप्रकारः कर्मत्वाद्यपीत्यर्थः। वर्तमानति । क्रियास्वरूपप्रधानेत्यर्थः । ननु चेष्टाया अभिप्रायमात्रद्योतनेऽन्वयप्रकारेषु कर्मत्वादिपु सुकरः सङ्केतः । न च पूर्वैरन्वयप्रकारेपुः काचिच्चेष्टा सङ्केतितेति वाच्यम् । इदानीमपि तत्करणसंभवात् । कथं वाऽपभ्रंशे. .ऽन्वयप्रकारोपस्थापकविभक्तयभावेऽन्वयबोध। मैवम् । गामानयेत्यत्रेव गौ कर्मानयनमित्यत्र वाक्यार्थप्रेत्ययाभीवादन्वयव्यतिरेक्रोभ्यां विभक्त्युपस्थापितकर्मत्वादेरेवान्वयबोधकत्वात् । अपभ्रंशे

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107