Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१९६
: गुणनिरूपणम्..... यग्राहकादन्यो वाच्यः, तस्य नियमेनोपस्थितौ मानाभावात् । नापि समयग्राहक एवं शब्दः । स हि तदा स्याद्यदि चेष्टायां शब्दादेव परं. समयग्रहः स्यात् । न चैवं चेष्टान्तरेणैव व्यवहारश्चेष्टायामपिं समयग्रहात् ।
.: मैवम् । यत्र शब्देनार्थविशेषे चेष्टाविशेषस्य : संकेतग्रहस्तदभिप्रेत्योक्तम् ।
तत्रेति । तत्र चेष्टातः शब्दः एव स्पर्यते । स एव स्मृतः संसर्गवोधको न चेष्टेत्यर्थः । लिपिवदिति । यद्यपि लिपेः शब्दसङ्केतो नार्थेऽर्थविशेषमजानतोऽपि लेखकादेः शब्दस्वरूपज्ञानादिति वैषम्यम् । तथापि यथा वाक्यार्थसङ्केतितानां पदानां वाक्यार्थस्मारकत्वं तथा यत्र विशिष्टेऽर्थे चेष्टायाः सङ्केतो . गृहीतस्तत्र त्रिशिष्टार्थस्य ततः स्मृतिरेव नानुभव इर्ति कुतः स्मृतिमात्रोपयोगिन्याश्चेष्टायाः प्रमाणत्वमित्यभिप्रेत्योक्तम्- न चेति । स्मृति नं प्रमेति भावः ।
: यदि हीति । यं जनयित्वैव यं प्रति यस्य नियतपूर्वभाव: स्तस्यैव तद्व्यापारत्वादिति भावः । न चैवमिति । चेष्टां विनाप्याकाङ्क्षादिमतः शब्दाद्वयुत्पन्नस्यार्थप्रत्ययाद्वयभिचार इत्यर्थः । नन्वेवमिति । तथाच व्यभिचारान्न सर्वत्र चेष्टायाः शब्दो - पंजीवनमिति भावः । अंत एवेति । शब्दव्युत्पत्त्यभावादित्यर्थः । तथाच त्वदीयं लक्षणं चेष्टासाधारणं न तंत्रास्तीति चेष्टापि तत्र प्रमाणं न स्यात् । मानान्तरं च तत्र संकेतग्राहकं नास्त्येवेति भावः । व्यवहारश्चेति । न च शब्देऽप्येवमभिप्रायानुमानांदेव
.
A
•
..

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107