Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 82
________________ ११८ गुणनिरूपणम् तु विभक्तिसंकेवारोपादेव संसर्गबोध इति स्वतन्त्रपदार्योपस्थिती गौरश्च इनि बन्नान्वयवोषः स्यादिति भावः। प्रकरणादयस्त्विति । नानार्यादौ सामान्यशब्दस्य विशेष परत्वमात्रं प्रकरणादिवः स्यान्न तु कारकविशेषान्वयप्रकारोपस्थितिरपि । त्यावे वा स्वतन्त्रपदार्थोपस्यितावपि प्रकरणादिनान्वयप्रकारोपस्यापकविमक्तयुन्नयनादन्वयबोधः स्यादेत्ययः । कथं तहीति । व्यवहारस्य संसर्गज्ञानसाध्यवादित्ययः । स्वरूपत इति । असाधारणप्रमाकरणत्वेनेत्यर्थः । ननु सादृश्यमेवोपमानस्य विषयत्वेन परिच्छेद्यं भविष्यतीत्यत आह-तथाहीति । सामान्यं च यथायथं प्रत्यक्षादिपरिच्छेद्यमेवेति न तद्ग्रडे मानान्तरापेक्षेत्यर्थः। । यद्यपि सादृश्यं समतियोगि न तु निष्पतियोगि सामान्य मेकं तथापि तद्भिन्नत्वे सति तद्गतभूयःसामान्यवत्वं सादृश्यम् । तत्र च भेदः सप्रतियोगिक इति तयाटितस्य सादृश्यस्यापि समतियोगिकत्वम्। यद्यपि चैकमेव सामान्यं न सादृश्यं मूयःसामान्यात्मकतयाङ्गीकारे च सादृश्यमनकं स्यात् । तथापि तावत्स भूयःसामान्येप्वेकत्वमौपाधिकम् । ननु गोसदृशो गवय इति प्रत्यक्षानन्तरमेतत्सदृशो गौरिति ज्ञानमुपमानफलं स्यात, तस्येन्द्रियासनिकृष्टविषयत्वेनाप्रत्यक्षवादेतत्सदृशत्वेन पूर्वमननुमूनविषयत्वेनास्मृतित्वादित्याह-न चैतदिति । एवं च सति तद्रियर्मेयं व्यक्तिरित्यवगते एतद्विधर्मा सा व्यक्तिरित्यपि ज्ञानमुपमानफलं स्यादुक्तयुक्तरित्याह-तथा सतीति।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107