Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 88
________________ २०४ गुणनिरूपणम् द्वह्निसत्त्वेऽनुपलब्धेश्च तदसत्त्वे भावाभावग्राहकयोर्विरोधेऽर्वाग्भागपरभागयोस्तव्यवस्थापनमापत्तिफलमेव स्यादिति नानुमानं स्यादित्यर्थः। अनुमानाभाव इति। धूमावह्निना भाव्यमित्यनेन सममनुपलब्धर्विरोधस्तदा यदि धूमो बढेरनुयापकः स्यात् । तथाच सिद्धमनुमानमित्यर्थः। व्याप्तिग्राहकेणेति। अनुमानेन समं विरोधो नोक्तः किन्तु धूमवह्निव्याप्तिग्राहकमानेन सहेत्यर्थः। अथ सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिर्वाधिकैव तदा क्वचिदस्तीत्यस्यापि गेहे नास्तीत्यनेन सहन विरोध इति तुल्यमिति भावः। केवलव्यतिरेक्यादिवदिति । यथा केवलव्यतिरेक्यनुमानान्तरात्केनापि वैधम्र्येण पृथक् तथा श्रुतार्यापत्तिरपि दृष्टार्थापत्तेः पृथगस्त्वित्यर्थः । एकस्येति। पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्राप्रसिद्धरात्रिभोजनस्य भोजनसाध्यपीनत्वज्ञापनमनुपपन्नं रात्रिभोजनमादाय सिध्यति । तथाहि । यथाऽभोजी पीन इत्यत्र न योग्यताज्ञान तथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्रापि दिवाभोजनस्य योग्यताघटकरात्रिभोजनस्याप्रतीतेः । अतो योग्यताघटकोपस्थितिं विनान्वयमलभ. मानमिदं वाक्यं योग्यताघटकरात्रिभोजनोपपादकं रात्रौ भुङ्क्त इति वाक्यं कल्पयित्वा तेन सहान्वयबोधं जनयति । एवञ्च श्रूयमाणस्यान्वयवोधजनकत्वं योग्यताघटकोपस्थापकेन शब्देन विनानुपपद्यमानं तं कल्पयित्वा यत्रान्वयत्रोधं जनयति तत्र श्रुतार्थापत्तिरित्यर्थः । ननु लाघवाद्रात्रिभोजनमेव कल्पयितुं युक्तं, शब्दस्यापि तदुपस्थापनद्वारा योग्यताघटकत्वादित्यत आह-शाब्दी हीति । तथाच शब्योपस्थापितयेव पदार्थणादायान्वयबोधकत्वमिति शब्द

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107