Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 85
________________ किरणावलीप्रकाशः २०१ भूतार्थप्रतिपादकत्वम् । परस्परापेक्षामात्रेणेत्यत्रान्वयोपपत्तिरित्यनुषज्यते । तस्माद्वास्तवेति । नतु यत्र गोसादृश्यगवयपदवाच्यतयोः सामानाधिकरण्यमात्र एव तात्पर्यं न तु गवयत्वप्रवृत्तिनिमित्तकतायामपि तत्र शब्दस्य पर्यवसन्नत्वात् प्रमाणान्तरं गवयत्वप्रवृत्तिनिमित्तताग्राहकं वाच्यम् । अथ गौरवाख्यतर्केणेतराप्रवृत्तिनिमित्तकत्वेऽवधृतं गवयपदं गवयत्वप्रदृत्तिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति व्यतिरेकी स्यात् । न । इतराप्रवृत्तिनिमित्तकत्वस्य केवलतर्कस्यानिश्चायकत्वेनासिद्धेः । तस्माद्यस्य तर्कः सहकारी तन्मानान्तरं वाच्यम् । अत्राहुः । सप्रवृत्तिनिमित्तकताग्राहकसामान्यतो दृष्टमेव गौरवाख्यतर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकत्वे गवयत्वप्रवृत्तिनिमित्तकतां परिच्छिनत्ति क्लृप्तमान एवं तर्कस्य सहकारित्वे संभवति कल्पनीयप्रमाणे तथात्वस्यान्याय्यत्वाद्गौरवादिति ॥ " दृढतरममाणेति । योग्यानुपलम्भसहकृतेन्द्रियग्राह्यत्वेन गृहासत्त्वस्य निश्चितत्वमुक्तम् । एवं जीवनमपि ज्योतिःशास्त्रात्ममितमिति मरणं न कल्प्यते । अन्यथेति । बहिः सत्वं विना गृहासतो जीवित्वमनुपपद्यमानमर्थापत्तिफलमित्यर्थः । विरोध्येवेत्यनेन प्रकृतोपयुक्तं नोक्तमित्यत आह-विरोधीति । तथापीति । यद्यपि जीवनवहिःसत्त्वयोर्मिथो विरोधे तदुभयमेकत्र देवदत्ते न वर्तत इति केन बहिःसत्वं साध्यम् । तथापि जीवता कापि स्थातव्यमिति यदि गृहविषयकं स्यात्तदा विरोधः स्यादिति

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107