Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 74
________________ १९० गुणनिरूपणम् . वगमप्रागभावस्तदाक्षिप्तसंसर्गावगमप्रागभावो वाकाङ्क्षा. इति ‘सामान्येनैव रूपेण तन्निरूपणमिति न प्रागेव संसर्गविशेषसिद्धिदोष इत्यर्थः । आकाङ्क्षायोग्यतासत्तीनां च निर्वचनमन्वीक्षातत्त्ववोधे तात्पर्यपरिशुद्धिप्रकाशे च सभ्यनिरूपितमिति विस्तरभयानेह प्रतायते ॥ संदिग्धेति । वक्तुः संदेहादयमाप्तोक्तत्वसंदेहो द्रष्टव्यो न तु वक्तुरातत्वसंदेहः । धर्मिग्राहकमानेनैव तनिश्चयात् । आप्तोक्ता वेदा इति । आमोक्तत्वं च वेदसमानविषयानित्यज्ञानातिरिक्तकारणीभूतयथार्थज्ञानसमानविषयत्वम् । ननु महाजनपरिगृहीतत्वादिति हेतुः साध्यसाधनयोरगृहीतव्याप्तिकतया नान्वयी न वा व्यतिरेकी प्रामाण्ये साध्येऽसाधारणः। मैवम् । अन्वयेन दृष्टान्तस्यायुर्वेदस्य सत्त्वात । व्यतिरेकिण्यपि महाजनपरिगृहीतान्यलौकिकार्थानि वाक्यानि स्वार्थे प्रमाणानि एतादृग्वाक्यत्वादित्यत्रासाधारण्याभावात् । न चापयोजकत्वम् । महाजनपरिगृहीतत्वस्यैव विपक्षवाधकत्वात् । स्वतन्त्रेति । आनुपूर्वीज्ञानजन्यानुपूर्वीज्ञानविषयत्वमेव स्वतन्त्रपुरुषप्रणीतत्वम् । सर्वदर्शनेति । अत्रान्वये व्याकरणवैद्यकादिदृष्टान्तः । ननु वैद्यके कर्मण्यनुष्ठीयमानेऽपि फलाभावादमामाण्यमापि स्यादित्यत आह-सिद्धे चेति । ननु नास्माकं महाजनपरिग्रहाव प्रामाण्यं, किन्तु नित्यत्वेनापौरुषेयत्वादित्यत आह-तदेवमिति । अन्यथापीति । नित्यत्वग्राहकं प्रत्यमिज्ञानं तज्जातीयत्वविषयत्वे. नाप्युपपद्यत इत्यर्थः । ननु चास्मर्यमाणकर्तृकत्वाद्वेदानामपौरुषेयत्वं

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107