Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः १९३ तदभावे विशेषदर्शनं भावस्तद्धतुः स्यादिति नोक्तरूपं स्वतस्त्वमित्याह-भवेदप्येवमिति । किञ्च । दोपाभावस्येव भूयोऽवयवेन्द्रियसंनिकर्षविशेपदर्शनादिसमवधाने प्रमा, तंदभावे त्वप्रमति गुणस्याप्यन्वयव्यतिरेकयोः सत्त्वादगुणोऽपि तद्धेतुरित्याह-प्रामाण्यं प्रतीति । अन्वयव्यतिरेकतुल्यत्वेन . प्रमायां गुणोऽप्रमायों तदभावो हेतुरिति वैपरीत्यमेव किं न स्यादिति भावः । प्रमामात्रे च नानुगतो गुणः, किन्तु तत्तत्प्रमायां भूयोऽवयवेन्द्रियसंनिकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां प्रत्येकमेव गुणत्वमन्वयव्यतिरेकात् । प्रत्यक्षविशेषदर्शनमपि गुणस्तदनुविधानात् । यद्यपि स्थाणुत्वव्याप्यवक्रकोटराधारोपविशेषगुणदर्शनेऽपि स्थाणुत्वभ्रमो भवत्येव । तथापि विशेषदर्शनं प्रमारूपं गुणो विवक्षितः । · एवं प्रामाण्यमिति । प्रामाण्यस्य स्वतो ग्रहेऽनभ्यासदशोंत्पन्नज्ञाने तत्संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्यग्रहः । ज्ञानाग्रहे चं धर्मिज्ञानाभावान्न संशय इत्यर्थः। ननु स्वग्राह्यत्वेऽपि परग्राह्यत्वात स्वस्याप्यन्यापेक्षया परत्वात्, भट्टमते परग्राह्यत्वाच सिद्धसाधनम् । न च ग्राह्यप्रामाण्यापेक्षया परत्वं ग्राहकस्यापि । ग्राह्यप्रामाण्यत्वेन तदपेक्षया परत्वाभावात् । अग्राह्यप्रामाण्यापेक्षयाऽप्रमाणत्वप्रसङ्गात् । अर्थेऽनैकान्तिकञ्च 1 उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह स्वाश्रयातिरिक्तग्राह्यं वा । आश्रये सत्यपि तदुत्तरन्नीयमणवर्नि संशयविपयत्वात् । अप्रामाण्यसंशयाजन्यसंशयविषयवान ! मा:माण्यवत् । अर्थे निश्चितेऽपि न निश्चयानन्दादी

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107