Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः १९१ साध्यमित्यत आह-अस्मर्यमाणेति । न हि वयमस्यति । ननु मौनिश्लोकवत् कण्ठाद्यभिघाताभावेऽपि वेदकर्तृत्वं भविष्यति । ____ अत्राहुः। तथापि मौनी यथा लिप्यादिना परं श्लोकं बोधयति तथेश्वरोऽपि परं बोधयिष्यतीत्यायातमीश्वरस्य शरीरम् । न च मन्वादिभिः सर्गाद्यकालीनैरतीन्द्रियदर्शित्वेन स्वयमेव तज्ज्ञानम् । तेषामतीन्द्रियार्थदर्शित्वे मानाभावात् । __यद्वा । शब्दकर्तावश्यं शरीरीति नियमः । आयतनतयेति । तेन भोक्तु गायतनं शरीरमिति लक्षणं शरीरविशेषस्यति द्रष्टव्यम् । __ददातिशब्दो हीति । ननु संप्रदानमनभिधायापि रजकस्य वस्त्रं ददातीत्यादौ ददातिशब्दप्रयोगादिदमयुक्तम् । ददातिकर्मणा चाभिप्रेतो न वक्ता । ददातिशब्दाप्रयोगे संपदानाभावापत्तेः । नापि कर्ता । वक्तरि तदापत्तेः । ___ मैवम् । वेदे ब्राह्मणाय गां दद्यादित्यादौ संप्रदानसमभिव्याहृतो ददातिशब्दः संप्रदानबुद्धिं विना न भवतीत्येवंपरत्वात् ।
तथा हीति । ननु प्रमेयाज्ञानत्वेन तद्धत्वतिरिक्तहेतुजन्यतया साध्यबाधः, ज्ञानाजनकजन्यत्वे विरोधः, अप्रमायां तदसिद्धिश्च । किं च । यत्किञ्चिज्ज्ञानहेत्वपेक्षया सर्वतद्धत्वपेक्षया वातिरिक्तत्वे इन्द्रियादिभिः सिद्धसाधनम् । न च ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्यति साध्यम् । ज्ञानत्वस्य नित्यत्तितया कार्यतानवच्छेदकत्वात् । अनित्यज्ञानत्वेतिकरणे इन्द्रियादिमियथायथं सिद्धसाधनम् । तेषां प्रत्यकं ज्ञानमात्राइतत्वात् ।

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107