Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१८४ . गुणनिरूपणम्.. लक्षणत इति । शब्दः प्रत्यक्षानुमानवृत्तिधर्मवान्न वेत्यर्थः । . . - तत्प्रामाण्यामिति । वादिना शब्दापामाण्यसाधनार्य यत्ममाणशब्देनोपस्थाप्यं कुतस्ततः शब्दाप्रामाण्यं सिध्येदित्यर्थः । ननु शब्दाप्रामाण्येऽपि शब्दोपस्थापितैरगृहीतैः शब्दापामाण्यवोधकमनुमानमुपस्थाप्यते न तु शब्देन · तत् साध्यते । वादिनोऽनासत्वात् । : ... .. . ....
अत्राहुः । वादिवाक्यं स्वसमानविषयकप्रमाणोत्थापनद्वारा शब्दापामाण्य बोधयति नं वा ? न चेदतिप्रसङ्गः । आये। शब्दापामाण्य प्रमाणान्तरस्यापि न तत्समानविषयकत्वेन प्रामाण्यसिद्धिरिति कुतस्तदिष्टसिद्धिारति भावः । ननु पुज्जात्पुज्जोत्पत्तिरिति न्यायेन चक्षुरपि रूपकार्य, तथा च तदुत्पत्तिलक्षणतत्रास्तीत्यत आह-न च चक्षुरपीति । ननु चक्षुः कथं रसादिकार्यमित्यत आह-रूपरसादीति । तव दर्शने तेनैव न्यायेन रूपरसादिपुञ्जजन्यत्वं चक्षुष इति रसादिजन्यताप्यस्तीति रसादीनपि गमयेदित्यर्थः । यदि चाविनाभावाच्चक्षू रूपं गमयति तदा यत्रा‘विनाभावस्य प्रयोजकत्वं तत्र ज्ञायमानस्यैवेति न चक्षुरज्ञाने तदविनाभावज्ञानमिति कथमज्ञायमानाच्चक्षुषों रूपज्ञानमित्याह-अविनेति । ज्ञानसमसमय इति।ज्ञानोत्पत्तिकालोत्पत्तिक इत्यर्थः । .अनन्तरेति । अव्यवहितमाक्कालीनो वेत्यर्थः । प्रत्यक्षज्ञानस्य संबद्धवर्तमानमात्रविषयकत्वनियमात् क्षणभङ्गनयेन च पूर्वोत्तरक्षणोत्पत्तिकयोरभावनियमादतितुच्छत्वेनायं पक्षः पृथङ् न पितः। ... आद्य इति । तुल्यकालोत्पत्तिकयोः कार्यकारणभावादि

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107