Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 70
________________ गुणनिरूपणम् साध्यं प्रागुक्तमनुवर्तते । विशेषासिद्धिः संसृज्यमानः प्रत्येकपदार्थ इत्यस्य विशेषस्यासिद्धिरित्यर्थः। संसर्गस्येति । पदार्थविशिष्टस्यैव संसर्गस्य ज्ञानविषयत्वादित्यर्थः । ननु मिथः संसर्गसिद्धावप्येकज्ञानविषयत्वादिरेव संसर्गोऽस्तु । यद्वा । गवा दण्डमभ्याजेत्येवावयोऽस्तु । न । वक्तृतात्पर्यविषयत्वेन संसर्गस्य विशेषणात । योग्यतया लिङ्गविशेषणान्नानापुंवक्तृकपदस्मारित व्यभिचार इति भावः । यद्वैतानीति । ज्ञानविशेषणत्वेनात्रापि पदार्थसंसर्गसिद्धिः । भ्रान्तप्रतारकवाक्येन न व्यभिचारः। तस्याप्याहार्यसंसर्गज्ञानोपगमात् । तथापि शुकोदीरिते संवादिवाक्ये व्यभिचारः । तत्रापीश्वरस्यैव वेद इव संसर्गज्ञानात् । न चैवं भ्रान्तभ्रान्तिज्ञसंकरापाचः। भ्रान्तिज्ञज्ञानस्य भ्रान्तिविषयविषयकत्वेन व्यधिकरणप्रकारकत्वाभावात् । व्यधिकरणप्रकारकत्वस्य भ्रमज्ञानस्य भ्रमे सत्त्वात् । . संसृष्टा एवेति । यद्यपि संसृष्टा इति साध्यं न तु नियमोऽपि । तथापि संभावनासाध्यत्वव्यवच्छेदपरमेतत् । तदु. क्तरपीति । विप्रलम्भकेन भ्रान्तेन यदुक्तं पदजातं तदर्थानां संसर्गाभावादित्यर्थः । प्रागेवेति । योग्यतयैव हेतुविशेषणे नेत्यर्थः । न तावदिति । विशेषणविशेष्यभावस्य संसर्गरूप• तया प्रागसिद्धरित्यर्थः । नापि यद्योग्यतेति । योग्यतयैव गतार्थत्वादित्यर्थः । नाप्यविनति । नीलं घटमानयेत्यादौ तदभावादित्यर्थः । नापि विशेषेति । नीलेन विशेषेण व्याप्येन सामान्यगुणमात्रं व्यापकमाक्षिप्त तथा सरोजेन तथैव द्रव्यमानं तदनयोरविनाभावोऽस्त्येवेत्यर्थः । एतच्च न । घटो भवतीत्यत्र

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107