Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाश घटेन गुणिसामान्यस्याक्षिप्तस्याविनाभावेन साकाङ्क्षतया पर्यवसानप्रसङ्गात् । नापि प्रतिपत्तुरिति । घटो भवतीत्यत्र प्रतिपत्तुर्गुणादिजिज्ञासायां पर्यवसानप्रसङ्गादित्यर्थः । किं तीति । घटो भवतीत्यत्र तु गुणादिजिज्ञासा न पदस्मारितविशिष्टविषयेति न साकाङ्क्षत्वमित्यर्थः । सत्तामात्रेणेति । तथा चाकाङ्क्षायां सत्यामेव शब्दस्य ज्ञानजनने संभृतसामग्रीकत्वाद्वेत्तुरेव विलम्बित इति भावः । तर्हि माभूदाकाङ्क्षा लिङ्गविशेषणमित्यत आहआसत्तियोग्यतेति । व्यभिचारादिति । राजपदार्थपुरुषपदार्थयोः परस्परमन्वये वक्तृज्ञानाभावादित्यर्थः । न त्वेतदस्तीति । यद्यपि प्रतिपदार्थमुत्थिताकाङ्क्षा तत एव विनष्टा कथं कालान्तरे स्वरूपसती वाक्यार्थप्रत्ययजननी । तज्ज्ञानकारणत्वे तु ज्ञानस्यापि पूर्व नाशे संस्कारादुपयोगस्तस्याः संभवति । तथापि समूहविषयकव जिज्ञासा स्वरूपसती वाक्यार्थबुद्धौ हेतुः संभवति । भवतु वाकाङ्क्षा ज्ञातैव कारणम् । तथापि तद्विशिष्टो हेतुरनैकान्तिक इत्याह-न वाकाङ्क्षायामिति । सा च स्मारितेति। कचिद्वह्निरस्तु इत्यादौ शब्दस्मारितयोरेवाविनाभावः । कचित्तदाक्षिप्तयोनीलं सरोजमित्यादौ । एतावतैव कृते अहो विमलं जलं नद्यास्तीरे महिषश्चरतीत्यादावाका- .
झासत्वादेवं वाक्यता स्यादित्यत आह-श्रोतरि तदुत्पाद्यति। तेन वानुत्पादितः स्मारितः इत्यादि तु प्रायिकत्वादुक्तम् । श्रोतनिष्ठवक्तृविवक्षितसंसर्गावगमप्रागभाव इत्यर्थः । प्रतियोगीति । अयं भागभावो यदि ज्ञात उपयुज्यते तदा प्रतियोगिन्यवग़मे ज्ञाते

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107