Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः
१८३ तु गोत्वसास्नात्वयोर्याप्तिमुपलभ्य पूर्वदृष्टे गवि गोत्वानुमितिर्भवतीत्यर्थः । पक्षसपक्षयोर्जात्यभेदमभिधाय पक्षसपक्षवृत्तिसाध्ययोस्तदाह-अथवेति । यनैव साध्येन सह व्याप्तिह्यते तस्यैव .यदनुमानं तदृदृष्टम् । यच्च सामान्यतो गृहीतव्याप्त्या तज्जातीयधर्मान्तरसाधकं तत सामान्यतो दृष्टमिति संक्षेपः। :
पूर्व हीति । गोव्यक्तौ गोत्वजातिवैशिष्टयमनुमितामिति पक्षसपक्षात्मकजातीयौ । संप्रत्यपीति । ( सास्नादिमत्त्वे ? ) गोव्यक्तिसंबन्धस्य साध्यत्वे भवति । साध्यस्यैकजात्यमित्यर्थः । पूर्ववदिति। प्रसिद्धं यत्पूर्व लिङ्गेन सह दृष्टं साध्यं फलवत्त्वरूपं यच्च संपति फलानुमानं तयोरत्यन्तं जातिभेद इत्यर्थः । न तु पक्षसपक्षयोरत्यन्तं जातिभेदः । प्रयत्नत्वेनैकजात्यात् । फले च स्वर्गापवर्गादावैकजात्यभाव एव । अत एवाग्रे साध्यमात्रसाजात्यं वक्ष्यति। . अत्र सस्यादिकमित्यादि । ननु हेयत्वोपादेयत्वमन्तरेण ज्ञानत्वमेव न संभवतीत्याह-उपेक्षेति । ननु स्वनिश्चितमात्मनि निश्चितं घटादिकं. तदर्थ नानुमानं तस्य ज्ञानार्थत्वादित्यत आहभावे क्त इति ।
नन्वनुमाने प्रमाणे शब्दान्त वस्तदा संभाव्येत यदि शब्दः प्रमाणं स्यान्न तु तत्सिद्धमिति कुतस्तस्यानुमानान्तर्भावचिन्तेत्यत "भाइ-इह खल्विति । न च शब्दः प्रमाणं न वेति न वा कोटेरसिद्धिःपरामृष्यमाणलिङ्गकरणतावादिमते चरमध्वंसे प्रमा“करणत्वाभावप्रसिद्धीभेदत इति। शब्दोऽनुमानभिन्नोन वेत्यर्थः।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107